This page has not been fully proofread.

स्तुतिभू.
 
३७
 
तावनिर्विवादम्- यदियं केवला वायुस्तुतिरित्येव शेषाचार्यपर्यन्तः सम्प्रदाय
इति ॥
 
केचिदन्यथा वर्णयन्ति छलारिवचनमपि - 'केवलं विष्णुस्तुतिं विना आत्म-
स्तुतिमसहमानाः' इति । तदिदं व्याख्यानकौशलं नाम । त एवमपि
व्याख्येयासुः–'पार्वतीपश्च रमेश्वरच पार्वतीपरमेश्वरावित्येव काळिदासाभि-
मतोऽर्थः' इति । तदिदं मूलवाक्यस्य स्वाभिमतार्थपरताबलात्करणमेव ।
गीर्वाणवाणीवधूटी नूनं बिभेत्येतेभ्यो दुःशासनेभ्यः । तस्मादतिवादोऽयमु-
पेक्षणीयः । प्रायः सर्वत्रापि शक्यमेवं यस्यकस्यापि वाक्यस्य स्वापेक्षिता-
र्थपरतया व्याकरणम् ॥
 
सर्वाण्यपि पदानि, सर्वाण्यपि गुञ्जनानि, कूजनानि च हरिगुणगानानीति
साधारणं वचः । न केवलं स्तुतिवचनानाम्, नापि संस्कृतभाषायाः,
प्राकृतभाषाणामपि समानमेतत् । तथाऽपि न तत्र हरिपरतामनुसन्दधते ।
वक्तुर्विवक्षा हि वाक्यार्थं निर्धारयति । न व्याख्यातुर्विवक्षा ॥
 
ये मूलं स्वानुकूलमन्यथयन्ति गन्धाखवन्ति ते शालिशाण्याम्, मत्कुणन्ति
ते हंसतूलिकातल्पे ॥
 
सत्यमेतदेवम् । अथापि वायुपराणि वचनान्यपोद्यन्ते । वेदगतानामिव
सूक्तानामस्या अपि स्तुतेरवश्यमभ्युपेया विष्णुपरतेति केचित् । नायमपि
वादश्चित्ते लगति । यतः सर्वत्रापि वक्तृविवक्षैव तात्पर्यनिर्णयनी भवति ।
यदाहोदयनः–'तात्पर्यगर्भ एव श्रुतिकुमार्याः पुंयोगे मानम्' इति । नहि
वायुपराणीति सूक्तेषु स्तोत्रेषु वा कोऽपि विशेषः । नात्र ग्रन्थकर्तुस्तादृशी
विवक्षाऽस्तीत्यत्र किमपि निरवकाशं मानं पश्यामः ॥
 
अपरथा महदिदमापद्येत वैयाकुल्यम्- वायुस्तुतेरिव श्रीमध्वविजयस्यापि
हरिपरतया व्याख्यानान्तरं करणीयमापतितम् । भवतु तदपि प्रयत्यताम् ।
सुवर्णावकाशोऽयं बलादर्थान्तरकरणचपलानां शब्दव्यायामो नाम ॥
 
19