This page has not been fully proofread.

स्तुतिभू.
 
केचित्पुनरधिरोहणीमेवाट्टालिकां मन्यमानाः सोपानेष्वेव दृढमुपविशन्ति
स्म । शोचनीयास्ते । अनुकम्पनीयास्ते । तत्पुच्छावलम्बिनां तु का कथा
शोचनीयतमानां परप्रत्ययनेयनिर्णयानाम् ॥
 
३६
 
दिष्ट्चा कूर्मनरसिंहाचार्यः प्रथमपद्यव्याख्यानान्ते पुनरेतामेव शङ्कामुद्भाव्यान्यथैव
समाधत्त । तथाहि तद्वचनम्-
'नन्वस्मन्मते स्वातन्त्र्येण भगवदितरदेवतोपासनस्यानङ्गीकारादस्य
ग्रन्थस्य वायुदेवताकत्वेऽपसिद्धान्तः । विष्णुदेवताकत्वे तु वायुस्तुतित्व-
प्रसिद्धिव्याघातः । अतः किन्देवताकोऽयं ग्रन्थ इति? उच्यते ।
अन्तर्यामितया विष्णुः, तत्प्रतिमात्वेन तु वायुः प्रतिपाद्यत इति परम-
मुख्यदेवता विष्णुः, वायुश्च मुख्यदेवता प्राणसंवादादिप्रतिपादक-
वाक्यवदित्युभयदेवताकोऽयं ग्रन्थः । कुतः ? 'श्रीमद्विष्णबङ्घ्रिनिष्ठा-'
इत्युपक्रमात् 'स्तुतिमकृत हरेर्वायुदेवस्य चास्य' इत्युपसंहारात् । मध्येऽपि
तत्रतत्र भगवद्गुणनिरूपणाच्च' इत्यादि ।
 
वायुस्तुतेरर्थद्वयपरतावादिनां विश्वासमूलं किञ्चिद्विचिन्तयामः । समस्तमपि
वाङ्मयमन्ततो भगवत्परमिति भगवत्पादसिद्धान्तः । तदनुगुणं वायुस्तुतेरपि
हरिपरताचिन्तनं युक्तं च शास्त्रानुमतं च । सामान्यवचनमेतत् । अनया दिशा
सर्वा अपि स्तुतयो विष्णुस्तुतयोऽपि भवन्ति । न केवलमियं विशिष्य
वायुस्तुतिरेव ॥
 
मम तु संशीतिरन्यैव । प्रतना विपश्चितो व्याख्यातारः किमिति नैतां
वाचमुल्लिलिखुः ? मूलकर्तुः कालतो नेदीयान् वेदात्मतीर्थोऽपि किमिति
नास्यार्थस्य सम्भावनामपि सूचयामास ?
 
आस्तां प्राचामाचार्याणां चर्याचिन्ता । ततोऽर्वाचीनश्छलारिशेषाचार्योऽपि

'विष्णुस्तुतिं बिना केवलमात्मस्तुतिमसहमानाः' इत्येव बाण । एतेनैतावत्