This page has not been fully proofread.

स्तुतिभू.
 
एतेन वचसा जातस्फूर्तयः केचिदर्वाचीनाः पण्डिताः वायुस्तुतेश्चत्वारिंशतोऽपि
पद्यानां विष्णुपरतया व्याख्यानाय प्रायतन्त । व्यासराजभट्टोपाध्यायस्तु
मुखत एतदाह -
 
३५
 
'नन्वेवमपि ग्रन्थकर्तृभिर्विष्णुपरतया स्तुतिर्न कृतेति विष्णुपरतया
व्याख्यानं तेषामनभिमतमिति चेत्, न । तैरेव 'सुब्रह्मण्ये 'ति चरम-
श्लोके 'हरेर्वायुदेवस्य च स्तुतिमकृत' इति विशिष्योक्तेः' इति ॥
इदमित्थं स्यात्- हरिपरमादौ पठ्यमानं पद्यद्वयम्, तत इमां वायुस्तुतिं च
समाहृत्य 'हरिवायुस्तुतिः' इति व्यवहारः प्रारब्धः स्यात् । एवमेतद्व्यवहार-
मूलमजानतां केषामपि पण्डितानां वायुस्तुतिरेव हरिपरतया प्रत्यभात् ।
सर्वेऽपि दुराग्रहमूला अपलापा एवमेवोत्पत्तिं लभन्ते ॥
 
इदमिह कुतूहलावहम् । यच्छलारीशेषाचार्यस्य नायं कल्पनागन्धोऽप्यास ।
तदाशयानुसारेण - इयं केवला वायुस्तुतिः, न हरिस्तुतिरित्यसन्तुष्यता, एत-
न्यूनतापरिहाराय भगवत्पादेन हि नखस्तुतिर्व्यरच्यत । तथाहि तद्वचनम्-
'विष्णुस्तुतिं विना केवलमात्मस्तुतिमसहमानाः सर्वारिष्टनिवर्तक-
श्रीनरसिंहनखस्तुतिप्रतिपादकं श्लोकद्वयं विरचय्य मङ्गलाचरण-
रूपत्वेन तदादौ निबन्धनं कुरु, सम्पुटाकारेणाऽदावन्ते च पठतां फलं
भविष्यतीत्युक्त्वा श्लोकद्वयं ददुः' इति ॥
 
एतेन विज्ञायते यच्छलारीशेषाचार्यात् पाश्चात्योऽयं कल्पनाविलासः हरि-
वायुस्तुतिरियमिति ॥
 
एवमन्यान्यस्थलेषु श्रवणाच्छ्रवणमाक्रमन्ती किंवदन्तीशैलूषी काले व्यतियति
विविधरूपतां धत्ते । तत्तत्कालभवाष्टीकाकारास्तान्तां श्रवणपथमागतां कथां
स्वग्रन्थेषु यथायथं जग्रन्थुः । संशोधकानां तथ्यमन्त्रेष्टुकामानामिमाः सर्वाः
सोपानानि भवन्ति ॥
 
18