This page has been fully proofread once and needs a second look.

पञ्चमी व्यारजासभट्टोपाध्यायकृता टीका पदार्थचन्द्रिका नाम । अनेनापि
नखस्तुतिर्न व्याख्याता । वायुस्तुतेरपि विष्णुपरतयाऽर्थं विववार । न
वायुपरतया ॥
 
तदिदं तस्य मङ्गलपद्यम्--
 
श्रीनृसिंहं प्रणम्याथ पूर्णबोधादिकान् गुरून् ।
विष्णोः परतया वायुस्तुतिर्व्याख्यायते मया ॥
 
प्रायो वायुस्तुतेर्विष्णुपरतया व्याख्यानव्यसनचापलमेतदुपज्ञमेव प्रक्रान्तमिति
प्रतीयते ॥
 
अयं स्वटीकायां वेदात्मतीर्थीयं व्याख्यानमुल्लिखति–-
 
वेदात्मयतीश्वरप्रभृतिभिर्वायुपरतया व्याख्याता । मया तु प्रायेण
हरिपरतया...यथामति व्याख्यायते' ॥
 
अस्यामपि व्याख्यायां बहवः प्रयोगदोषा दृश्यन्ते । स्यादपि लिपिकाराणां
प्रमादः । स्वात्मानमन्तरेण स एवोपसंहारवाक्य एवमाह --
 
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्भागवततात्पर्यनिर्णय-
प्रकाशिकाकर्तुः श्रीनिवास भट्टोपाध्यायप्रपौत्रस्य आनन्दभट्टोपाध्यायस्य
पुत्रेण व्यासराजेन विरचिता कविकुलतिलकश्रीमत्त्रिविक्रमपण्डिता-
चार्यविरचितवायुस्तुतिव्याख्या पदार्थचन्द्रिका समाप्ता ॥
 
किञ्चिदिवास्फुटमिदं वाक्यम् । एतदनुसारेण भागवततात्पर्यनिर्णयप्रकाशि-
काकर्ता आनन्दभट्टोपाध्यायः । श्रीनिवासभट्टोपाध्यायस्य प्रपौत्रोऽयं स्तुति-
व्याख्यातुर्व्यासराजस्य जनकः ॥
 
प्राय एवं वक्तव्यमासीदिति भाति- 'भागवततात्पर्यनिर्णयप्रकाशिकाकर्तुः श्रीनि-
वासभट्टोपाध्यायस्य प्रपौत्रेण, आनन्द भट्टोपाध्यायस्य पुत्रेण व्यासराजेन'