This page has been fully proofread once and needs a second look.

३२
 
स्तुतिभू.
 
अपूर्वमिदं कूर्मनृसिंहोपज्ञमाविष्कृतं प्रमेयम्- यदाचार्यपदगौरवं भगवत्पाद

एव त्रिविक्रमपण्डितस्य प्रीतिपूर्वं प्रददाविति । अनेनापि नखस्तुतिर्न

व्याख्याता । तेन तर्क्यत–वेदात्मयतिरिवायं च पण्डितो वायुस्तुतेराद्यन्तयो-

र्नखस्तुतिपठनसम्प्रदायस्य प्रारम्भात् पूर्वतन इति ॥
 

 
प्रकटिता चेयं टीका 'हैदराबाद' नगरे 'उस्मानिया'विश्वविद्यानिलयस्य

संस्कृतपरिषदा ॥
 

 
तृतीया टीका, सम्प्रति श्रीपेजावरमठ इति प्रथितं श्रीमदधोक्षजतीर्थसंस्थान-

मधिरूढेन श्रीविश्वपतितीर्थाख्ययतिना विरचिता । यतिरयं श्रीपेजावरमठीय-

गुरुपरम्परायां विंशः पीठाधिपतिः, शा. श. षोडशे शतके बभूव (स्थूलतया

१५२०) । अयं तावत् प्रथमं नखस्तुतिरिति पद्यद्वयमपि व्याचख्यौ । नात्र

किञ्चिदप्यपूर्वं वैशिष्ट्यम् । बालानामपि सुखबोधाय श्रीवेदात्मतीर्थीयस्यैव

सरळविवरणमिव । इयमपि पूर्वं प्रकटिता श्रीपेजावरमठेनैव ॥
 
*
 

 
तुरीया छलारिशेषाचार्यकृता टीका । क्वचित्कचिद् रुचिरं पदकृत्यनिरूपणं

भवति । क्वचित्क्वचिद् भाषादोषोऽपि । स यथा- प्रदर्शयित्वा । लिपिका-

रदोषोऽपि स्यात् । अनेनापि पद्यद्वयी नखस्तुतिरिति व्याख्यातेत्युक्तम् ॥

 
अनेनाऽदृतः पाठोऽपि नातिशुद्धः । नखस्तुतेरन्ते, 'भाविता भूरिभागैः' इत्या

हृषीकेशतीर्थात् सर्वैः प्रतनैरुद्धृतः पाठः । एवं स्थितेऽयं शेषाचार्य:, 'भाविता

नाकिवृन्दैः' इति पाठं पठति । प्रमादजनितोऽयं पाठः । अदृष्टमूलपाठास्तमेव

पाठमनुसस्रुः । सैवैका परम्परा बभूव । परम्पराप्राप्त इति परे च तमेव

पाठमवलम्ब्य व्याचक्षते चानुवदन्ति च । एवं क्वचिदपपाठ एव मूलपाठस्य

शिर आरुह्य नृत्यन् शुद्धपाठमपहसन् विजृम्भते । 'ग्रन्थोऽप्येवं विलुळितः

किम्र्थो देवदुर्गमः?'