This page has been fully proofread once and needs a second look.

तेनेदं ज्ञायते -- यद् वायुस्तुतिकर्तुः पण्डिताचार्यस्य तनयो नारायणपण्डितश्चायं
च स्तुतिव्याख्याता मस्करी समकालीनौ, यदा युवाऽयं प्रवयास्तदा स
इति ॥
 
तस्मादस्याष्टीकायाः मूलकृता देशतो न केवलम्, कालतश्च सन्निकर्षादतीव
महत्त्वम् । नैकट्यं ह्यधिकृततामादधाति । प्रौढा चेयं टीका विबुधप्रिया ।
व्याकरणमलङ्कारान् कोशं चोल्लिखन्ती कविभावं विशदयन्ती यतेरस्य बहु-
श्रुततां स्फुटयति । रमणीया पाठतोऽर्थतश्च प्रामाणिकी टीका । मुद्रिता चेयं
सकृत्, मयैव संशोध्य सम्पादिता १८९४मिते शकाब्दे (A.D.1972) । नात्र
नखस्तुतिटीका दृश्यते ॥
 
द्वितीया कूर्मनृसिंहाचार्यकृताऽतितरां विस्तृता टीका भावप्रदीपिका नाम ।
स्तुतिगतानां पदानां निर्वचनम्, धातुपाठस्य विविधकोशानां चोद्धरणम्,
व्याकरणविशेषविमर्शश्च व्याख्यायाः प्रौढतामादधाति । अथापि विस्तरस्य
बाहुल्यमेवास्या न्यूनता । अहो ग्रन्थगौरवमपि ग्रन्थस्य लाघवमादधाति ।
एतस्य जीवितकालादिकमन्तरेण न किमपि ज्ञायते । अन्ते च व्याख्याता
स्वनाम व्यापयामास--
 
कूर्मपूर्वपदाख्येन विदुषा मारुतस्तुतेः ।
नृसिंहेन कृता व्याख्या तया प्रीणातु माधवः ॥
 
 
उपसंहारवाक्ये च स्तुतिकर्तुस्त्रिविक्रमपण्डितस्य विषये किमप्यपूर्वं प्रमेय -
माविश्चकार--
 
श्रीमत्कविकुलचूडामणि-सर्वविद्यापारावारपारीणसर्वदुर्वादिमत्त-मातङ्ग-
सिंहायमान-अध्यात्मविद्याप्रवर्तकसाक्षाच्छ्रीभगवत्पादाचार्यलब्धाचार्य-
पदत्रिविक्रमपण्डिताचार्यकृतवायुस्तुतिटीका भावप्रदीपिका कूर्मनृसिंहेन
विरचिता समाप्तिमिता ॥