This page has been fully proofread once and needs a second look.

३०
 
स्तुतिभू.
 
प्रसन्नाः सन्त एकैकश्लोकस्यैकैकाभीष्टप्रदत्वरूपं वरं दत्वा .. श्रीनर-

सिंहनखस्तुतिप्रतिपादकं... श्लोकद्वयं ददुरिति ।
 

 
मृग्यमस्याः प्रथाया मूलम् । श्लोकद्वयं न नृसिंहस्तुतिप्रतिपादकमिति

स्फुटम् । नापि श्लोकद्वयस्यैकग्रन्थ्यमिति च सप्रमाणमुपपादितम् ॥
 

 
फला
पेक्षामृते केवलं गुरुदेवतयोः प्रीत्यै पठनमेव युक्तः पन्थाः ॥

 
अयं चास्याः स्तुतेर्महिमातिशय :- यद् गृहस्थेन रचितेयं सन्यासिभिरपि

मन्त्रतुल्यतयाऽमान्यत, नित्यमपठ्यत । नहि येकेऽपि सन्न्यासिनः । स्वयं

श्रीवादिराजयतिराजः स्तवस्यास्य नित्यपारायणनिरत इति महताऽऽदरेण

प्रशशंस–'वायुस्तुतिरतिर्नित्यम्' इति ॥
 

 
टीका अनुवादाच
 

 
स्तुतेरस्याः चतुष्पञ्चाष्टीका: प्रचलिता दृश्यन्ते ॥
 

 
तत्र सर्वप्रथमा सर्वोत्कृष्टा च श्रीवेदात्मतीर्थयतिना रचिता टीका कवि-

कर्णामृतं नाम । विद्वदग्रणीः पदवाक्यप्रमाणज्ञोऽयं यतिशेखरः पूर्वं कुम्भा-

सिमठ इति, सम्प्रति सोदामठ इति प्रथितं श्रीविष्णुतीर्थसंस्थानमधिरूढः

परम्परायां दशमः । यत्र श्रीवादिराजयतिर्विंशः । स च वादिराजयतिः

शालिवाहनशकस्य १४०२ तमे वर्षे (A.D.1480) जनिमाप । प्रायः १४१२तमे

शकवर्षे (A.D.1490) तस्य तुरीयाश्रमस्वीकारः । १२३९तमे हि शकवर्षे

(A.D.1317) श्रीमध्वो बदरीं ययौ । तेन श्रीमध्वस्य तस्य चान्तरा व्यवधानं

१७३वर्षाणि । तस्मिन्नन्तराळे विंशतिर्यतयः संस्थानमशिषन् । तेनैकैकस्य

पीठाधिपत्यकालः प्रायोऽष्टनवाः केवलमब्दाः । तथाच दशमस्य वेदात्मती -

र्थयतेः पीठाधिपत्यकालः स्थूलतया शकाब्दाः १३२०-९ पर्यन्ताः। (A.D.139
8-
1407 ) । अशीतिवत्सरास्तस्याऽयुःकालः स्युरिति ग्रहणे, यस्मिन् हायने

श्रीमध्वो बदरीं ययौ तस्मिन् तत्परारि वा हायनेऽयमजायतेति सम्भाव्येत ।