This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
२९
 
सूर्य(१२)ऋषि(७)भिर्विरतिः-

 
पान्त्वस्मान् पुरुहूतवैरिबलवन् । मातङ्गमाद्यद्टा ।

कुम्भोच्चाद्रिविपाटनाधिकपटु । प्रत्येकवज्रायिताः ।

 
स्रग्धराया एकविंशत्यक्षराया लक्षणं च-

 
'मरभनया यौ मुनिमुनिमुनिभिः स्यात् स्रग्धरा विभिन्नाङ्गी' इति ।
 

 
मगणः । रगणः । भगणः । नगणः । यगणः । यगणः । यगणः ।
 

 
श्रीमत्कं । ठरवा । स्यप्रत । तसुन । खरादा । रितारा ।
 
तिदूर- ।

 
प्रध्वस्त- । ध्वान्तशां । तप्रवि । ततम । नसाभा । विताभू । रिभागैः ।

 
मुनि(७)मुनि(७)मुनि(७)भिर्यतिः–
 

 
श्रीमत्कण्ठीरवास्य । प्रततसुनखरा । दारितारातिदूर ।

प्रध्वस्तध्वान्तशान्त । प्रविततमनसा । भाविताभूरिभागैः ।
 

 
नखस्तुतेरनन्तरं पठ्यमानं द्वितीयमपि पद्यं स्रग्धराबद्धम् । अथ समग्रा च

वायुस्तुतिः ॥
 

 
पण्डिताचार्येण पूर्वं रचिता विष्णुस्तुतिरपि स्रग्धराबद्धैव । विस्तरेण वर्ण-

नानुगुणं छन्दः । भगवतो गुरोश्च गुणस्रग्धरा नृत्यन्तीव नटी । प्रतिपाद-

मुच्छ्वस्य, आ पादान्तं प्राणानायम्य, पठितुमनुकूलम् । अत एव प्राणतत्वस्य

प्रियं छन्दः । अत एव विष्णोरपि प्रियम् ॥
 

 
मन्त्रकाव्यम्
 

 
नेदं केवलं स्तोत्रकाव्यम् । मन्त्रकाव्यमपि । पठन्ति च मन्त्रतुल्यतयैव ।

एकैकमपि पद्यमेकैकाभीष्टलाभाय पठित्वा पुनश्चरणरूपः सम्प्रदायोऽपि

प्रचलितोऽस्ति । छलारीशेषाचार्यस्तु स्वटीकायामयं पुनश्चरणसम्प्रदायो भग-

वत्पादमूल एवेत्याह-

 
त्रिविक्रमपण्डितचार्यवर्यः..... वायुस्तुतिपुनश्चरणकारिणां तत्तत्काम्य-

फलप्रदत्वरूपं वरं प्रार्थयामास । ततः श्रीमध्वाचार्याः.....ग्रन्थं दृष्ट्वा
 
15