This page has been fully proofread once and needs a second look.

शार्दूलविक्रीडितेन स्तुतिं प्रस्तुत्य स्रग्धरया पद्यमवसाययति भगवत्पादः ।
अपूर्वोऽयं छन्दसोः समागमः ॥
 
इन्द्रवज्रोपेन्द्रवज्राभ्यां च वंशस्थेन्द्रवंशाभ्यां च संसृष्ट्या काचिदुपजातिर्नाम
च्छन्दोभेदः काव्येषु प्रचुरः । शार्दूलविक्रीडितस्रग्धरयोरपूर्वेयमुपजातिः ।
स्यादियं विक्रीडितस्रग्धरा नाम । भगवत्पादोपज्ञमिदमाविष्करणम् । उल्लि-
लेख चेदमपूर्वमुदाहरणमिति मन्दारमरन्दचम्प्वां कृष्णावधूतपण्डितः ।
 
अत्र काचन चमत्कृतिरन्तर्गता चकास्ति । तदिदमुपसर्जनमेव च्छन्दसोः स्फुटं
कथयतीव नरसिंहनखरलीलाम् ॥
 
आदौ नृहर्यक्षस्य नखरैर्हिरण्यकशिपोर्वक्षोविपाटनं नाम शार्दूलविक्रीडितम् ।
(सिंहमपि शार्दूलमाह यादवप्रकाशः-'व्यादीर्णास्यो महानादः शार्दूलस्तुल्य-
विक्रमः' इति ।) ततश्चारेरान्त्रस्रग्धरा लीला भगवतः । एवं श्रीनृसिंहावतारस्य
विचित्रामहो मृगराजखेलां छन्दसोः संसर्जनेनैवाऽविष्कुर्वन्ती चमत्कृतिरिय-
मदृष्टपूर्वा समग्रे संस्कृतवाङ्मये । भगवत्पादेनास्मिन् पद्ये ग्रथ्यमाने मन्ये
छन्दोमानिन्यो देवता ननृतुरानन्दतुन्दिलाः ॥
 
सेयं शार्दूलविक्रीडितस्य चैकान्नविंशत्यर्णस्य गणसञ्चारः--
 
'शार्दूलविक्रीडितं तु यत्र मः सजसाः पुनः ।
ततगा: सूर्यऋषिभिर्विरतिः -' इति ।
 
मगणः । सगणः । जगणः । सगणः । तगणः । तगणः । गुरुः
 
पान्त्वस्मान् । पुरुहू । तवैरि । बलवन् । मातङ्ग । माद्यद्ध । टा ।
 
कुम्भोच्चा । द्रिविपा । टनाधि । कपटु- । प्रत्येक । वज्रायि । ताः ।