This page has been fully proofread once and needs a second look.

अथापि सातङ्कमिवाधीरं मनः नखस्तुतिमन्तरेण कस्तस्याऽशय इति । मम
मनोगतं पठन्निव स यतिराड् जगाद- 'नखस्तुतिविषये सूक्तमुक्तं त्वया ।
नितरां ललाग मे चित्ते' ॥
 
सर्वाङ्गं चक्षुर्भूत्वा तमैक्षे । सर्वाङ्गं श्रवणीकृत्य तद्वचनं निरैक्षे । स पुनराह-
'श्रीहृषीकेशतीर्थलिखिते मूलपाठे त्वेकमेव पद्यमुपलभ्यते । बहुधा किला-
हमभ्यधां विबुधानां सविधे हृषीकेशतीर्थीयो मूलपाठः समाद्रियताम्, सर्वत्र
प्रचुरः क्रियतामिति । स किल भगवत्पादकृतीनामधिकृतः परिशुद्धश्च पाठ
इति । न कोऽपि तत् परिजग्राह । सर्वेऽपि प्रचलितपाठपरित्यागे
बिभ्यति । अहो सत्यं वक्तुं कियद् भयमसत्ये मग्नानाम् । न कोऽपि तथ्यं
पथ्यं मन्यते । अतथ्यमेवानुवर्तयति सम्प्रदायमिषेण । सोऽयमहो सम्प्रदाय -
वादिनां मूलसम्प्रदायभङ्गः । तदियमन्धनेतृकाऽन्धपरम्परा' ॥
विस्मितोऽहमभवम् । किमिदं तथ्यमाहो स्वप्नदर्शनम्?
 
स पुनराह– 'महान् सन्तोष: समजनि । धीरोऽसि । अस्ति ते धृतिस्तथ्य-
माख्यातुम् । अभीः प्रतिरुध्यस्व सम्प्रदायच्छद्मना प्रसृतामसत्यपरम्पराम् ।
एवमेव भव बद्धदीक्षः श्रीहृषीकेशतीर्थेन विलिख्य रक्षितस्य मूलपाठस्य
प्रसारणे । सदा त्वय्यस्ति ममाऽशीःपरम्परा' ॥
 
अविद्यायामन्तरे वेष्ट्यमानानां पण्डितम्मन्यानां मध्ये कश्चनाद्भुतोऽयं विद्या-
समुद्रः । अपूर्वोऽयमनुभवः । न पारयामि शब्दैस्तं विवरीतुम् । इदं तु पुनः
सत्यम् । ततः परमीषादन्तः सन्नाह्यो गज इव सर्वमूलपाठरक्षायां समर-
सज्जोऽभवम् ॥
 
तथाच नखस्तुतिरित्येकमेव पद्यमिति स्थितम् । अत्र पश्यत किञ्चिच्चित्रम्,
अन्यत्र क्वापि काव्येष्वदृष्टपूर्वं वैशिष्टयम् । समग्रमिदं पद्यं नैकेन च्छन्दसा
बद्धम् । पूर्वार्धे शार्दूलविक्रीडितमुत्तरार्धे स्रग्धरा ॥