This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
विम्रष्टुमपेक्षिता हृदयालुता दयालुता च प्रायो लुप्तप्रायैव । यथा तदानीं

तथेदानीमपि । मुक्तचिन्तनमेव हन्त नष्टप्रायम् । सत्यस्य शिरसि परि-

नरीनृत्यदसत्यं विजयमानं विजृम्भते ॥
 
-
 
२६
 

 
एवङ्गते लोकवृत्ते श्रीविद्यासमुद्रतीर्थयतिः कञ्चन पुरुषं प्रेषयामास । स

मामेत्याह- 'गुरवस्त्वां दिदृक्षन्ते' इति ॥
 

 
श्रीपादोऽयं तपसा जीर्णः । ज्ञानेन पूर्ण: । निरन्तरस्वाध्यायेन सर्वं वयो

यापयामास । प्रायोऽयमपि वृद्धो यतिः, 'किमिदमसङ्गतं भणित्वा श्लथयसि

जनानां श्रद्धाम्', इति भत्सयितुमेव मामाह्वापयामासेति शङ्कमान एवाहं

सातङ्कं तत्समीपमुपागमम् । आगत्य च तत्पादयोः प्राणमम् ॥
 

 
स तु प्रीतिनिर्भरया सनारायणस्मरणं वाचा सान्त्वयन्निवोवाच–'एहि,

उपविश' । तेन सञ्जातधैर्यस्तत्सविधे विनीत उपाविशम् ।
 

 
स पुनः साकूतं जगाद–'अपश्यं नखस्तुतिमन्तरेण त्वयोदितम्' ।

नूनं तत्कृते भत्सना कुत्सना वा श्रोतव्येति मन्वान उत्तानकर्ण आकर्णने

सज्जोऽभवम् । स निरैक्षत मां पिबन्निव विकसिताभ्यां नयनाभ्याम् । तया

चक्षुःप्रभया स्नात इव पूतः पुलकितोऽभवम् । अथापि किमिदानीं विवक्षतीति

स्वान्तमन्तरबिभेदिव ॥
 

 
स ममाऽन्तरं वैयाकुल्यं पश्यन्निव जगाद - 'समतुष्यं दृष्ट्वा त्वदुदितम्' ।

मम हर्षो न पारं ददर्श । मम प्रथमकृतेः प्रथमं श्रवणपथमागता प्रशंसा ।

तदपि यस्यकस्यचन । एकस्य विपश्चितामपश्चिमस्य, तपस्विनामग्रण्यः,

यतिकुलशिरःशेखरस्य ॥
 

 
अश्वयमहमानन्देन । इतः परं यः कोऽपि कामं भत्सयतु नाम । न मे काचन

भीः । नहि क्षुद्रपण्डितानामप्रबुद्धमसूयागर्भं वचोऽहं लक्षयेयम्, मानयेयं

वा । नहि कुकुरो बुकतीति नाकोऽश्रु विमुञ्चति ॥