This page has not been fully proofread.

२५
 
स्तुतिभू.
 
समुल्ललास, यस्य च वाचमर्थोऽनुदधाव । अथाप्यन्तर्मुखो मुग्ध इवावधूत
इवाप्रकटितात्मसाधनो ज्ञानधनो जिजीव । तदा चाहमुपविंशः किञ्चिदङ्कुरि-
तश्मश्रुरकिणस्कन्धो गलिरिवाऽसम् । मम प्रथमा कृतिः श्रीकृष्णामृत-
महार्णवस्य कर्णाटभाषानुवादो नखस्तुत्या सह तर्हेव मुद्रणालयमुखं
ददर्श ॥
 
तत्रेदमुपज्ञं मया प्रास्तूयत नखस्तुतिरित्येकमेव पद्यमिति । रूप्यपीठे पण्डित-
समवाये समजनि महान् कोलाहलः । केचिद् विस्मिता अप्यसहमानाः
ससम्भ्रममुच्चुक्रुशुः । केचित् क्रुद्धाः साटोपमनलबिस्फुलिङ्गानेवोदवमन् । ते
जूटं बद्ध्वा जजल्पु:- 'एतावन्तमनेहसं नखस्तुतिरिति पठन्ति स्म सर्वेऽपि
विपश्चितः । किं ते सर्वेऽनधिगततथ्या मिथ्याचारा अनभिज्ञाः पामराः ?
किमयमेकस्तथ्यदर्शी पण्डितवर इदमुपक्रममवतीर्णः? नोपेक्षणीयमिदं क्षुल्लं
बालिश्यम् । न क्षन्तव्योऽयमपराधः । किमिदमेवंविधानां महदुपक्रमाणां
समुदाचाराणां प्रत्याख्यानं नाम' इति ॥
 
-
 
केचिदेतच्छ्रुत्वा हर्षोत्फुल्लाः शूनगल्ला जीर्णमल्ला इवान्तःश्मश्रु जहसुः ।
 
'अन्धेनैव नीयमाना यथाऽन्धाः' ॥
 
सम्प्रदायान्धानामनेनाऽक्रोशावेशेन नाहमीषदपि विचचाल । मम वादसौधस्य
सुदृढाऽस्ति मूलशिलान्यासरचना । अस्ति संशोधनबलम् । अस्ति केवलं
सत्यान्वेषभरः । नाऽस दुराग्रहलेशोऽपि न सम्प्रदायद्वेषोऽपि । किमित्यहं
भीयासम्?
 
यन्मया संशोधनेनावगतं तद्विमशर्थं महाजनानां पुर उपस्थापनीयमित्याशा-
मात्रं मम प्रवृत्तिमूलम् । चर्च्यतां पण्डितैः, चर्चया च कश्चन निश्चयः,
नवनीतमिव मथनेन, समुद्भवेदित्युद्देशमात्रं तत्राऽसीत् । तेन किमित्यहं
सङ्कुचानि?
 
महदिदं दौर्भाग्यम्– यत् सर्वेऽपि स्वाभिमतमेव तथ्यमिति कत्थन्ते विना-
विमर्शं छलाक्रान्तस्वान्ताः । किमप्यपूर्वं प्रमेयं नूतनमपि मुक्तं स्वीकृत्य
 
13