This page has not been fully proofread.

स्तुतिभू.
 
२४
 
इदं चावधानीयम्– सम्प्रत्युपलब्धासु वायुस्तुतिटीकासु प्रतनतमा श्रीवेदात्म-
तीर्थविरचिता यः श्रीविष्णुतीर्थसंस्थानमधिरुह्य वेदान्तसाम्राज्यधुरामुवाह ।
वेदात्मतीर्थश्च नखस्तुतिं न व्याचख्यौ । तत्कृता वायुस्तुतिटींकैव केवल-
मुपलभ्यते । न तत्र नखस्तुतिसम्पुटीकरणवार्ताऽपि । तेन तदानीं नायं
सम्पुटीकरणसम्प्रदायः प्रचलित आसीदिति ज्ञायते ॥
 
आस्तां तावदियं कथा । अथ केन रचितं नखस्तुत्या सह पठ्यमानं द्वितीयं
पद्यम्? कदा वा नखस्तुत्या सह समगम्यत ? ऋतेऽधिकृतस्य प्रमाणस्या-
धिगमान्न किमपि शक्यं निचेतुम् ॥
 
इदमिह सम्भावितम् । द्वितीयमपि पद्यं प्रसङ्गान्तरे भगवत्पादेनैव रचि-
तम् । तेन न नखस्तुतिभागः । किन्तु स्वतन्त्रं स्तुत्यन्तरम् । इलोकद्वयमपि
हरिस्तुतिपरमिति, तत्रापि द्वितीयं पद्यं वायुस्तुतिच्छन्दसैव ग्रथितमिति पश्चात्
साम्प्रदायिकैः द्वयोरपि वायुस्तुतेः सम्पुटीकरणेन पठनसम्प्रदायः समारब्ध
इति । ततः परमपि गतः कतिपयः कालः । अथापि नूनं नातिप्राचीनोऽयं
 
सम्प्रदायः ॥
 
अयमिह मथितार्थः– पान्त्वस्मानित्यादि मिलितं पद्यद्वयं नैको ग्रन्थः । किन्तु
स्तुतिद्वयम् । प्रथमा नखस्तुतिः । द्वितीया लक्ष्मीकान्तस्तुतिः । वायुस्तुतेः
पूर्वं सहपाठनैयत्येन चैकग्रन्थ्यप्रथा । छत्रिन्यायेन च नखस्तुतिरित्याख्या ।
वस्तुतस्तु उभयोरपि संहत्य नरहरिस्तुतिरिति नाम युक्तं स्यादिति ग्रन्थेऽ-
स्मिन् तथैवोल्लिखितम् । क्वचित् 'हरिवायुस्तुतिः' इति व्यवहारोऽप्येतमेवार्थं
समर्थयते ॥
 
अत्र स्मराम्येकस्य प्रसङ्गस्य । तदात्वे श्रीरामतीर्थसंस्थाने श्रीकाणियूरुमठे
श्रीविद्यासमुद्रतीर्थो यतिराड् वेदान्तसिंहासनमारूढ आसीत् । अन्वर्थनामा
स कर्मन्दिपुङ्गवो विद्यासमुद्र एवाऽस । यस्याऽस्यरङ्गे सकलमपि शास्त्रजातं