This page has not been fully proofread.

स्तुतिभू.
 
२३
 
अत्रेदं वास्तवम्– पण्डिताचार्य: प्रथमं विष्णुस्तुतिं विधाय पश्चादेव वायुस्तुतिं
विरचयाम्बभूव । अस्यामेव स्तुतौ प्रथमं पृथग् विष्णुस्तुतिर्नास्तीत्येता-
वदेव । पश्चात्तना अपि विपश्चितो वायुस्तुतीः प्रणिन्युः । तत्र न क्वाप्यादौ
विष्णुस्तुतिः श्रूयते । पण्डिताचार्यकृतिरिति प्रथितायामपरस्यामपि मध्वस्तुतौ
नास्त्यादौ विष्णुस्तुतिः । नारायणपण्डितरचितायां शिवस्तुतावपि शिव
एवाऽदितः प्रस्तूयते–स्फुटं स्फटिकसप्रभमिति, ऋते विष्णुस्तुतेः । तस्मा-
दसाम्प्रदायिकोऽयं वाद इति निश्चीयेत । अथ नातिश्रद्धेयेयं कथा कथङ्कारं
केन कदा वा जनिमलभतेति न ज्ञायते ॥
 
अत्रान्यदपि वैयाकुल्यमस्ति- सम्प्रति साम्प्रदायिकम्मन्या अभिदधति -
पद्यद्वयात्मिका नखस्तुतिरिति । किन्तु श्रीहृषीकेशतीर्थेन साक्षाच्छ्रीमध्वमुखत
एव श्रुतसर्वमूलग्रन्थेन भगवत्पादशिष्यप्रवरेण लिखिते मूलपाठे पुनरेकमेव
पद्यमुपलभ्यते- पान्त्वस्मानिति । न द्वितीयम् । तस्य नखस्तुतिरिति नामापि
न तत्र निरदिश्यत । भगवत्पादरचितानां स्तोत्राणां मध्ये तावदिदमपि
लिखितम् । न पृथक् किमप्युपसंहारवाक्यम् । अथ श्रीहृषीकेशतीर्थलिखित-
मूलपाठानुसारिणि श्रीहृषीकेशतीर्थसंस्थानमधिरूढेन विद्वत्तल्लजेन श्रीरघुव-
र्यतीर्थयतिना लिखितेऽपि ताळपत्रमये कोशे पान्त्वस्मानित्येकमेव पद्य-
मुदलेखि । न द्वितीयं लक्ष्मीकान्तेत्यादिकम् ॥
 
अथच द्वितीये पद्ये नरसिंहनखानामुल्लेखवार्ताऽपि नास्ति । तेन स्फुटमव-
गम्यते नानयोः पद्ययरैकग्रन्ध्यमिति । श्रीवादिराजयतिविरचिते 'एकादशी-
निर्णये' चेत्थं पठ्यते-
'पान्त्वस्मानिति पद्यस्य वन्दे वन्द्यमिति स्तुतेः ।
'अन्यथा मध्वकृतितानिर्णयः किङ्कृतस्तव' ॥
 
अत्रापि पद्यस्येत्येकवचनं नखस्तुतेरैकपद्यं कटाक्षयतीव । स्यादिदमपि
सम्भावकं प्रमाणम् ॥
 
12