This page has not been fully proofread.

स्तुतिभू.
 
अनयोरूप्यमेव याथार्थ्ये सन्देहं जनयति । येनयेन यथायथा श्रुतं तथाविधं
कथ्यते । इयं शङ्करविजयकथैवाऽसीत् । द्वयमप्यश्रद्धेयं स्यादाहोस्विदेकतरं
प्रमाणम् । तत्रापि कतरत् प्रमाणमित्यनिश्चय एव । बहव एतादृशाः श्रद्धामूलाः
प्रज्ञावादा भवन्ति । न वयं कथायां कृतभराः । किन्तु वास्तवे धृतधुराः ॥
एतावदिह शक्यं वक्तुम् - पण्डिताचार्य: प्रथमं किल विष्णुस्तुतिं प्रणि-
नाय । प्रायस्तदैवं मनसि चिन्तयामास - भगवतः स्तुतिरिव गुरोरपि स्तुतिः
साधकानामवश्यमपेक्ष्यते निरन्तरं निरन्तरायं च साधनपथे पुरः पतितुम् ।
'यथा देवे तथा गुरौ' इति हि वदति श्रुतिः । ततः, येन
भुवनगुरुणा वयं
भगवत्तत्वमज्ञा अपि व्यज्ञासिष्मतराम्, सुतमां सुज्ञाः, तस्य भगवत्पाद-
स्यापि स्तुतिः काचन प्रस्तोतव्येति ॥
 
२२
 
तादृशस्य चिन्तनस्य फलमियं वायुस्तुतिः । सम्प्रति द्वयमपि सम्पन्नम्–
हरिस्तुतिश्च गुरुस्तुतिश्च । तदनेन परितुष्टमनाः समुज्जुघोष स्तोत्रावसाने–
'स्तुतिमकृत हरेर्वायुदेवस्य चास्य' इति ।
 
नखस्तुतिः - अत्रापि किंवदन्ती
 
वायुस्तुतेराद्यन्तयोः सम्पुटीकरणेन पठ्यमानं नखस्तुतिरिति प्रख्यायमानं
पद्यद्वयमन्तरेणापि काचन जनश्रुतिः सर्वतः प्रसृता श्रूयते । तदेवमाभाणकज्ञा
भणन्ति–
 
पण्डिताचार्यः स्वरचितां वायुस्तुतिं गुरुचरणयोः समार्पयत् । तदा भगवत्पाद
उवाद–'केवलमिह गुरुं तुष्टोथ । आदौ भगवत्स्तुतिः, ततः किल गुरुस्तुतिः
करणीया' इति ॥
 
तस्य परिहारसरणिं च भगवत्पाद एव दर्शयामास । स्वयं श्रीनरसिंहस्य
प्रार्थनारूपं नखस्तुतिं व्यररचत । विरचय्य चोवाच- भवतो गुरुस्तुतेरियं
नखस्तुतिः सम्पुटायताम् । एवमाद्यन्तयोरिमां स्तुतिं पठित्वा मध्ये वायुस्तुतिं
पठन्तोऽस्मदनुग्रहभाजनं भूयासुरिति । ततः परं वायुस्तुतेः नखस्तुत्या
सम्पुटीकरणं नियतं प्रचलितमासीदिति ॥