This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
a
 
वायुस्तुतिः - काऽपि किंवदन्ती
 

 
पण्डिताचार्यकृतां वायुस्तुतिमन्तरेण काऽपि किंवदन्ती प्रचलिता वर्तते ।

केचिदित्थमाभणन्ति-

 
भगवत्पादः रजतपीठे पूजानिरत आसीत् । नैवेद्यसमर्पणं प्रावर्तत । देवा-

गारस्य द्वारं पिहितारमासीत् । चन्द्रशालायां निषण्णाः सर्वे समर्पणसमा-

प्तिसूचकं घण्टानादं निरीक्षमाणा बभूवुः । पण्डिताचार्योऽपि ॥
 

 
अतीयाय महाननेहा । नाश्रूयत घण्टानादः । कुतोऽयमद्य विलम्ब इति सर्वेऽपि

व्यस्मयन्त । पण्डिताचार्योऽप्यन्तःकुतूलहं निग्रहीतुमप्रभवन् कपाटकुहरेणा-

न्तर्निरैक्षत । अहो ऐक्षत च विस्मयावहं दृश्यम् । भगवत्पादस्त्रिभी

रूपैर्भगवन्तमर्चति स्म । अहो इहाऽञ्जनेयः, तत्पुरतो रामभद्रः । अयमिह

भीमसेनः, तत्पुरतो वासुदेवः, पुनरिह पूर्णप्रज्ञः, पुरतो वेदव्यासः ।

सपद्याशुपद्यस्य कवेराननादनवद्या स्तुतिरियं निरर्गळमुद्गच्छत्-'श्रीमद्-

विष्ण्वङ्घ्रिनिष्ठातिगुणगुरुतमश्रीमदानन्दतीर्थत्रैलोक्याचार्यपादोज्ज्वलजलज-

लसत्पांसवोऽस्मान् पुनन्तु…………'॥
 

 
अन्यादृशीं किंवदन्तीमन्ये पठन्ति । उक्ताया एव कथायाः किञ्चिदिव

रूपान्तरम् । पूर्वा विश्वपतितीर्थीया । इयं छलारीयटीकायामुदाहृता, रायपाळ्यं

राघवेन्द्राचार्यविरचितायां कर्णाटकभाषाटीकायां च-

 
बदर्यां भगवत्पादः पिहितकवाटे देवागारे पूजानिरत आस । अलौकिकीमा-

चार्यपूजासरणिं दिदृक्षमाणः पण्डिताचार्यः कुतूहलबलात् खटक्किकायाः कवा-

टस्यान्तरे चक्षुर्निचिक्षेप । तदा स भगवत्पादपूजापीठे स्थापितायां कृष्णार्चायां

रामरूपं ददर्श । स्वयमाचार्यश्च हनुमानिव ददृशे । तेनापूर्वदर्शनेन विस्म-

यप्रोद्वलितः परमानन्दतुन्दिलः कविराजः स्तुतिमेतां सद्यो विरचय्य स्वगुरुं

तुष्टावेति ॥
 
11