This page has been fully proofread once and needs a second look.

१८
 
स्तुतिभू.
 
एवं महतां चरितमनुवर्णयन्ती विजयकाव्यपरम्परा पुनरेतदुपक्रममेव प्रास्तू-

यतेति ज्ञायते । मध्वविजयेन प्रभाविताः पश्चादनेके शङ्करविजया अहम्पूर्विकया

निरमीयन्त । तेषु नैकोऽपि तथ्यवर्णने दत्तभरः । एकत्रैका कथा । अपरत्रापरा

तद्विपरीता । तदेवं शङ्करविजयैरेव शङ्करजीवनकथा परस्परमतथ्यखचिता

दुःशकनिर्धारा चाविश्वसनीया च संवृत्ता । सर्वं व्याकुलं किंवदन्तीसङ्कुलं

बभूव ॥
 

 
नारायणपण्डितः स्वयमेवास्य मध्वविजयस्य भावप्रकाशिकामत्युपयुक्तां लघु-

टीकामप्यटीकत । मध्वचरितमेव च पुनर्नित्यपारायणोपयोगितया सञ्जग्राह

प्रमेयनवमालिकेति । यमणुमध्वविजय इति च व्यपदिन्ति ॥
 

 
अपरा च तस्योद्धकृतिः सङ्ग्रहरामायणम् । यत्रायं पण्डितसूनुः श्रीवाल्मीकि-

रामायणं च श्रीमध्वरामायणं च चतुरतरं समन्त्रियाय ॥
 
-
 

 
मणिमञ्जरी, शुभोदयः, यमकबद्धं पारिजातहरणं च तद्विरचितानि खण्ड-

काव्यानि । शिवस्तुतिः, नरसिंहस्तुतिरिति द्वे छन्दोलयभव्ये स्तोत्रकाव्ये ।

(केचिदिमां नृसिंहस्तुतिं त्रिविक्रमपण्डिताचार्यकृतिं मन्यन्ते । प्राचीनहस्त-

लिखतकोशानुगुणं नारायणपण्डितकृतिरित्येव सूक्तम् । तौळवदेशे सम्प्रदा-

यज्ञास्तथैव मन्यन्ते ।) उपासनामार्गदर्शन्यौ द्वे कृती योगदीपिका च ध्यान-

माला च । कृष्णमाला चान्या कृतिः कृष्णकथायाः कालानुक्रमणिका ॥

 
द्वे च वेदान्तकृती, एका तत्वमञ्जरी तत्वनिर्णयटीका, अपरा नयचन्द्रिका

चानुव्याख्यानटीका ॥
 

 
अथापरः प्रबन्धा वामनपण्डितः । नारायणपण्डिततनूजोऽयमिति प्रायः सर्वेषां

विदुषां मतम् । स त्वात्मानं त्रैविक्रमार्यदास इत्येव केवलं स्वग्रन्थेष्वाख्या-

पयामास । अथापि तदीया भाषाशैली वंशगुणवाहिनी तथ्यं ढौकयति । रुचिरं

च नामधेयम्–त्रिविक्रमपण्डितः पितामहः, वामनपण्डितः पौत्र इति ॥