This page has not been fully proofread.

स्तुतिभू.
 
अस्य द्वे कृती सम्प्रत्युपलभ्येते । एका त्वनुव्याख्यानस्य व्याख्या–'अनु-
व्याख्यानसम्बन्धदीपिका' । नातिवितता, अथापि विशदार्था । अपराऽनु-
व्याख्यानन्यायमालां न्यायविवरणेन संयोजयन्ती तनुतरा कृति:- 'अनु-
व्याख्यानन्यायविवरणसम्बन्धदीपिका' । अतीवोपयुक्ता सूत्राधिकरणयुक्ति-
मालामनुसन्दधताम् । तदिह विस्मयावहमेतत्, यन्नारायणपण्डितः स्वक्षुल्ल-
तातस्य कृती इमे नोल्लिलेखैव श्रीमध्वविजये, स्वकृतायामनुव्याख्यानटीकायां
नयचन्द्रिकायां वा ।॥
 
१७
 
एतेन शङ्केयमुद्भवति– द्वौ शङ्कराय लिकुचकुलशेखरौ मध्वशिष्यावुद-
लिख्येतां श्रीमध्वविजये । एकस्तत्र नारायणपण्डितस्य पितृव्यः । अन्यो दूरतः
सम्बन्धी । ततश्चायं सम्बन्धदीपिकायाः प्रबन्धा कश्चिदन्य एव दूरतः सम्बन्धी
शङ्करार्यः स्याद्वेति । भगवाननिश्चय एवं शरणम् ॥
 
(कल्याणी देवीति काचिदनुजा, केषाश्चिन्मते तनुजा, त्रिविक्रमपण्डितस्य
बभूवेत्यैतिह्यविदो वदन्ति । एषाऽपि विदुषी, श्रीमदाचार्यसिद्धान्ते बद्धदीक्षा
निवृत्तिमार्गनिरताऽनूढैव जिजीवेति चाऽभाणकम् । नारायणपण्डितस्त्वस्या
विषयेऽपि दिव्यं मौनमुवाह । तत्कृतय इति द्वित्राः स्तुतयोऽपि पठ्यन्ते ।
इयमाचार्यमध्वस्याग्रजेत्यन्ये । निश्चितप्रमाणानुपलम्भात् इदमित्थमिति तथ्य-
निर्णयः सम्प्रति दुःशक एव ।)
 
त्रिविक्रमपण्डितस्य त्रयस्तनयाः । नारायणपण्डितस्य स्वसरयोराद्ययोर्द्वयो-
र्नाम न क्वापि निरदिश्यत । तृतीय एव नारायणपण्डितः । अयमेव
लिकुचान्ववाये महान् ग्रन्थकारः । महाकाव्यखण्डकाव्यस्तोत्रयमककाव्या-
दिभिरयं भूयिष्ठं गीर्वाणसाहित्यसरस्वतीमलञ्चकार ॥
 
गीर्वाणवामये जीवनचरितं नाम काव्यप्रकारं प्रायोऽयमेव स्वोपक्रममाविश्व-
कार । तस्येयमपूर्वा कृतिरितिहासकाव्यं श्रीमध्वविजय इति । साक्षादाचार्यं
दृष्टवत: कृतिरिति विजयकाव्यमिदमैतिहासिकतायां महत्त्वमाधत्ते ॥
 
9