2023-02-18 04:42:39 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
स्तुतिभू.
ततःप्रभृति लिकुचपण्डितो भगवत्पादस्य प्रीतिपात्रमन्तरङ्गशिष्यो बभूव ।
श्रीमध्वगुरुमुखेनैव तदीयभाष्यसुषमामासस्वदे । सर्वाणि च तत्ववादरहस्या-
न्यधिजगे ।
महानतुलोऽनुग्रहो मध्वगुरोस्तस्मिन् । स तच्छिष्येषु निकटतम आस ।
तत्फलमिदम्– यदन्यान् सर्वानपि स्वशिष्यान् विहाय स्वभाष्यटीकारचने
भगवत्पादस्त्रिविक्रमपण्डितमेव न्ययुङ्क्त ॥
पण्डितोऽपि गुरोराज्ञां शिरसि निधाय तत्वप्रदीपाख्यमप्रख्यं व्याख्यानं
विरचय्य गुरुचरणयोः समार्पिपत् । रम्याद्भुतमिदं शास्त्रकाव्यम् ॥
एवं भगवानाचार्यः पण्डितेनैकं ग्रन्थरत्नराजं निरमापयत । पण्डितोऽप्या-
चार्येण । तदभ्यर्थनयैव भगवत्पादो ब्रह्मसूत्रस्य पद्यात्मकमनुभाष्यम्, अनु-
व्याख्यानमिति वैदिकाभिधानभूषितम्, किमप्यनुपमं प्रबन्धरत्नं प्रबबन्ध । तत्र
सूचितानामधिकरणयुक्तीनां विवरणार्थं पुनर्न्यायविवरणं नामापरं च ग्रन्थ-
रत्नम् । एवमहो महागुरुशिष्ययोरन्योन्यमयमनन्यः सम्बन्धः ॥
एवमेतावान् नारायणपण्डितेन स्वकृते श्रीमध्वविजये सङ्गृह्य निरूपितः
स्वतातस्य परिचयः ॥
लिकुचपण्डितान्ववाय एव पण्डितमयः । त्रिविक्रमपण्डितस्य जनक: सुब्र-
ह्मण्याख्यः सूरिरपि विद्वन्मूर्धन्य आस, स्वयं कविरासेति श्रूयते । तत्कृतयस्तु
का अपि नोपलभ्यन्ते ।
त्रिविक्रमपण्डितस्यानुजन्मा शङ्करपण्डितोsपि महान् विपश्चिदेव । अग्रज
इवायमनुजोऽपि विशिष्य भगवत्पादानुग्रहभाजनं बभूव । आचार्यस्य ग्रन्थ-
पालोऽप्ययमास । वस्तुतस्त्वयमेवाग्रजस्य मनःपरिवर्तनबीजम् ॥