This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
१५
 
फलितस्त्रिविक्रमपण्डितस्य चिरमाचीर्णः पुण्यनिचयः । तस्य मनसि चिर-

रात्राय निरूढं संशीतिजातं भगवत्पादः स्वयं पश्यन्निव क्रमश एकैकश

उद्भावयामास । उद्भाव्य चैकैकं सयुक्तिकं निरास । निरस्य च तत्ववादं
 

स्थापयामास ।॥
 

 
अथायमिदानीं त्रिविक्रमपण्डितस्य पर्यायः । सर्वथा प्रयतितव्यं यथाकथाच

मायावादस्य रक्षार्थम् । न युक्तं तूष्णीकामवस्थातुम् । आत्मानमेवावलम्ब्य

विश्रब्धमासीनायाः पण्डितपटल्याः कृतेऽपि स्वेन भणितव्यम् । एवं कृत-

निश्चयो राजगुरुः स्वयं राजसभायां वादायोत्तस्थौ ॥
 

 
लोकैकजयिना भगवत्पादेन सह वादकथा । त्रिविक्रमपण्डितोऽपि न सर्व-

साधारणः । स्वयं विपश्चितामपश्चिमः । यस्याग्रतः पण्डितसभा वदनं

व्यादातुमपि बिभाय तेनाऽचार्येण सह पण्डितः प्रचण्डं वादं वितेने ॥

पण्डिमण्डली निरुद्धश्वासा विस्मृतनिमेषा तस्थौ मुर्मुरोपरिगतेव तहतहा-

यमाना । दिनान्यतिगतानि । न विरराम लिकुचपण्डितः । न विषसाद ।

नापि निवृत्तवादकथो निषसाद । निरन्तरं तर्कजालं वितानयामास । भग-

वानाचार्योऽपि मनाक् स्मितेनैव तस्य मनस्कारं शिथिलयन् तत्प्रयुक्तानां

तर्काणां मूलमेवोत्कृत्य सलीलमुत्तरं ददौ । ततः प्रववृते वेदार्थपरिचर्या,

अहम्ब्रह्मास्मिना च तत्वमसिना च निशितेनेव कृपाणेन । भगवत आचा-

र्यस्यापूर्वं मन्त्रवर्णनिर्वर्णनं मेधाविनां मनोहरणमास ॥
 

 
एवं सप्ताष्टान् दिवसान् प्रचचाल कथा । अन्ते त्रिविक्रमपण्डितो बभूव

निरुत्तरः । छिन्नसर्वसंशयश्च । आनन्दाबहोऽयमहो पराभवोऽपि । ईदृशं

लोकोत्तरमाचार्यं लब्ध्वा जितोऽहमिति सम्मुमुदे । पपात च भुवनगुरोः

पादयोः । व्यजिज्ञपच सविनयम्- 'भगवन् गुरुतम, भगवतो विनेयकोटिषु

परिगणय्यानुग्रहीतव्योऽयमपि जनः । दातव्यं च भगवत्पादरजःसेवाभाग्यम्'

इति ॥
 
8