2023-02-17 14:35:29 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
लिकुचपण्डितो गलितविशयो मिलिताशयो बभूव । ॥
अथापि नैतावन्तं कालं तस्य साक्षाद् भगवत्पाददर्शनमासीत् । बहिर्मायावादं
समर्थयमानइवैवावर्तत । आचार्यमध्वं दृष्ट्वा तेन सह सर्वं विमृश्य तथ्यं
विजिज्ञासितव्यमित्यन्ते निर्दधार ॥
आचार्यमध्वोऽपि दिष्ट्या तं देशमाजगाम । स्वयं राजा जयसिंहस्तमाहूय
स्वराज्यं 'कबेनाडु' (
मङ्गलायतने न्यवात्सीत् ॥
राजगुरुस्त्रिविक्रमपण्डितो भगवत्पाददर्शनाय विष्णुमङ्गलमाजगाम । दृष्ट्वा
भगवत्पादं भक्तिविवश: पपात पादयोः ।
पण्डितमण्डलीनिबिडं महापुरुषदिदृक्षासमागतजनसन्दोहसन्दृब्धं नृपसभम-
लञ्चकार भगवत्पादः । निकट एव विनीतवेषो मूर्तिमानिव विनयः स्वयं
महाराज: । दृष्ट्वेदमपूर्वं दृश्यमानन्दतुन्दिलस्त्रिविक्रमपण्डितः कविसहजया
वाण्या समभिननन्द महाराजं जयसिंहम्-
स्वःसुन्दरीभुजलतापरिरम्भणी धू: पौरन्दरी भवति यं भजतां भुजिष्या ।
आनन्दतीर्थभगबत्पदपद्मपरेणुः स्वानन्ददो भवतु ते जयसिंहभूप ॥
एवमद्भुतोऽयं समजनि राजगुरोर्जगद्गुरुणा प्रथमः समागमः । अथ चातीतानि
कतिचन दिनानि । श्रीमध्ववचनानि प्रतिक्षणं परीक्षमाण एवाऽस त्रिवि
क्रमपण्डितः । श्रीमध्व एनमयस्कान्त इवाऽचकर्ष ॥
आचार्यमध्वो यत्रोवास तस्य ग्रामस्य तदानीन्तनं नाम 'कूडेलू' (
इति । सम्प्रति 'कूड्लु' (
देवमन्दिरे प्रत्यहं ब्रह्मसूत्रभाष्यं प्रवाचयाञ्चकार । त्रिविक्रमपण्डितः प्रतिपदं
सश्रद्धमाकर्णयामास । एकदा प्रवचनमारभमाणो भगवत्पादः पुरःस्थितं
लिकुचपण्डितं साकूतमालोकयामास समन्दहासम् ॥