2023-02-17 11:03:06 by ambuda-bot
This page has not been fully proofread.
स्तुतिभू.
तत्रभवता वादे विजित्य शिक्षणीयः । तं पराभाव्य मायावादो रक्षणीयः ।
भवन्तमृते हन्त न कोऽपि तस्य सम्प्रति प्रतिवादी दृश्यते । अप्रत्यनीकं तस्य
वादपाटवम् । अप्रतिहता सर्वकषा शेमुषी । न कोऽपि तस्य प्रत्यवस्थातु-
मीष्टे । कष्टे पतिता वयम् । ऋते भवन्तं न कोऽपि रक्षिताऽस्मत्पक्षस्य ।
गलितमाना वयं भवन्तं शरणमागताः । अहो, विषण्णा वयमिदं वदामः-
अस्मन्मतस्यास्तिता भवद्धस्ते निषण्णा । तत्रभवतः प्रतिभटः कोऽपि
नैतावन्तं दिष्टमजनिष्ट । भवतैव पण्डितपञ्चास्येन स दमनीयस्तत्ववाद-
मत्तमातङ्गः । तं परिपन्थिनं पराभाव्य भवतैव वितानयितव्यो मायावाद-
यशःपटहः । निवारयितव्यो नः सर्वेषामन्तराविष्टः पराभूतिभीतिग्रहः ।
तदर्थमियमिह समग्रा पण्डितमण्डली भवन्तमनन्यं त्रातारमुपागता' ॥
त्रिविक्रमपण्डितस्तान् कथञ्चित् सान्त्वयामास । किन्तु स्वयमन्तःस्वान्ते
चिन्ताक्रान्तो बभूव – 'किमहमाचार्यमध्वं विजेतुं प्रभवेयम् ?' इति ॥
अथापि न तूष्णीमास्त । स्वीकृततत्ववादानाचार्यमध्वस्यान्तेवासिनो बहून्
पण्डितान् खण्डयामास वादे । व्याकुलयामास तेषां चित्तम् । इलथयामा-
सान्तःसत्वम् । गलयामास गर्वम् ।
( अथापि स्वस्यानुजः शङ्करपण्डितः श्रीमध्वशिष्यो बभूव । स्वगृह एव
तत्ववादश्चचुं निचिक्षेप । तन्निवारणाय स्वयमप्रभवन् पण्डितः प्रकटं
सङ्कटमनुबभूव । साकमेव कल्याणी च तत्ववादे निष्ठां परिजग्राह ।
स्वनिशान्तान्तर्व्यापिनीं तत्ववादवात्यां प्रतिरोद्धुमशक्तः, कथमथ दिगन्त-
व्यापिनीं तत्प्रसृतिं स्वयमहं निरुणधानीति मुधानीतिमाकलयन् ध्यानमग्नो
बभूव लिकुचपण्डितः ।)
पण्डितानुजः शङ्करपण्डितो मध्वशिष्यो न केवलम् । तदीयग्रन्थपालोऽपि
किलाऽस । स च माध्वो ग्रन्थनिचयस्त्रिविक्रमपण्डितनिलय एवाइस ।
नक्तमेकान्ते, यदा सर्वेऽपि निद्रावशाः, त्रिविक्रमपण्डितः श्रीमध्वस्य
ग्रन्थान् कुतूहलाकुलित आलोकयामास । पाठम्पाठमनवधौ विस्मयजलधौ
7