This page has not been fully proofread.

ता. मी.
 
[बलमिति ज्ञानबलं देहबलं च । तदुभयमानी भूतवायुः । अन्नमिति
ज्ञानरतिरूपं ज्ञानान्नं बाह्यमन्नं च । तदुभयमानी अनिरुद्धः । आप इति
ज्ञानतृप्तिर्बाह्यजलं च । तदुभयमानी अहम्प्राणः । तेज इति मानसं प्रतिभानं
बाह्यं च । तदुभयमानी पुरन्दरः । आकाश इति स्थिरा प्रतिभा भूता-
काशश्च । तदुभयमानिन्युमा । ततः स्थिरस्मृतिमानी शिवः । तत आशाया
अपरोक्षानन्दस्य मानिन्यौ सरस्वतीभारत्यौ । ततश्च जीवकलामानी
मोक्षानन्दमानी च प्राणात्मा हिरण्यगर्भ इति ।]
 
८१
 
तथाहि श्रुतिः– 'अथातः सम्भूतिः । परमाद् विद्या विद्याया: प्राण: प्राणाच्छ्रद्धा
श्रद्धायाः शिवः शिवाद् बुद्धिर्बुद्धेरिन्द्र इन्द्रात् तेजसप्राणस्तैजसप्राणाद-
निरुद्धोऽनिरुद्धात् स्पर्शवात: स्पर्शवातात् सोमः सोमाद् वरुणो वरुणादग्निरग्नेर्मित्रो
मित्रात् पर्जन्य: पर्जन्यात् स्वाहा स्वाहाया उषा जायते' इति ।
 
इमामाचार्यगोविन्दश्चक्रे चक्रायुधप्रियाम् ।
तारतम्यस्य मीमांसां विनेयजनवाञ्छया ॥
 
इत्याचार्यगोविन्दस्य कृतिषु तारतम्यमीमांसा समाप्ता
 
-
 
41