This page has been fully proofread once and needs a second look.

ता. मी.
 

 
चित्रगुप्तः । सूर्यसारथिररुणः । नन्दी । ऐरावतः । सुरभिः । कल्प-

वृक्षादिदेवताः । अहोरात्रदेवते । पूर्णिमामावास्यादेवते । अभिजिद्-

विषुवद्देवते । ओषधिवनस्पत्यभिमानिनः । हविःकपालाद्यभिमानिनश्च ।

कर्मणा देवत्वं गताः शतं राजर्षयश्च पृथुः कार्तवीर्यः, शशबिन्दुः,

प्रियव्रतः, उत्तानपादः, मान्धाता, गयः, ककुत्स्थः, नहुषः, अम्बरीषः,

आर्षभो भरतः, दौः षन्तिर्भरतः, मरुत्तः, हरिश्चन्द्रः, प्रह्लादः, परीक्षि-

दाद्याश्च । त एतेऽग्नेः शतगुणावराः ।
 

 
२०. द्वादशादित्येषु चरमः पर्जन्य: । अनिरुद्धभार्या उषा विराडाख्या ।

चन्द्रभार्या रोहिणी । सूर्यभार्या सञ्ज्ञा । यमभार्या श्यामळा ।

वरुणभार्या च गङ्गा । एकान्नविंशकक्ष्यापठितेभ्यो मरीच्यादिभ्यो

द्विगुणावराः ।
 

 
२१. उक्तवक्ष्यमाणेभ्योऽन्ये अनाख्याताः देवाः । [ केचिन्नैतां कक्ष्यां

परिगणयन्ति] ।
 

 
२२. अग्निभार्या वाङ्मानिनी स्वाहा । एकान्नविंशकक्ष्यापठितेभ्यः पञ्च-

गुणावरा ।
 

 
२३. जलमानी बुधः । स्वाहातो द्विगुणावरः ।
 

 
२४. अश्विभार्या नाममानिनी उषाः । स्वाहातो दशगुणावरा ।
 

 
२५. कुजः
 
[^१] ।
 
२६. पृथिवीमानी सूर्यतनयः शनिः ।
 

 
२७. कर्ममानी वरुणपुत्रः पुष्करः ।
 

 
२८. काश्यपभार्याऽदितिः, या देवकी बभूव । द्रोणाव्यवसुभार्या धरा, या
 

 
यशोदा बभूव ।
 

 
[^
.] अयमप्येकोनविंश्यां कक्ष्यायां पठनीय इत्येके ।
 
40