This page has not been fully proofread.

७८
 
ता. मी.
 

 
१९. प्रधानवायुपुत्रो भूतवायुमानी मरीचिः । प्रधानाग्निपुत्रो भूताग्निमानी
पावकः । पादमानिनाविन्द्रपुत्रौ यज्ञनामा जयन्तः, शम्भुश्च । दैत्यगुरुः
शुक्रः । तत्सोदरच्यवनः । बृहस्पतिसोदर उचथ्य: । उक्तं सनत्कुमारं
विहायान्ये त्रयो ब्रह्मणो मानसपुत्रा ऋषय:- सनकः, सनन्दनः,
सनातनश्च । सप्त चान्य ऊर्ध्वरेतसः । एतान् दश, पूर्वोक्तान्
सनत्कुमारादींश्च दश विहायान्ये काश्यपाद्या अशीतिर्गृहस्था ऋषयः ।
भाविमन्वन्तराणामिन्द्राः सप्त - बलिः, अद्भुतः, शम्भुः, विधृतिः,
ऋतधामा, दिवस्पतिः, शुचिश्च । [अतीतेषु मन्वन्तरेषु प्रथमे
स्वायम्भुवेऽन्तरे यज्ञनामा विष्णुरेवेन्द्रः । द्वितीये स्वारोचिषे
रोचननामा वायुः । तृतीये चौत्तमे सत्यजिन्नामा यम इन्द्रः । चतुर्थे
तापसे पञ्चमे च रैवते त्रिशिखविभुनामानौ नासत्यदस्रावश्विना-
विन्द्री । षष्ठे चाक्षुषे मन्द्रद्युम्नः स एव च सप्तमे वैवस्वतेऽन्तरे
पुरन्दरनामेन्द्रः । तमेतमष्टमकक्ष्यागतमिन्द्रमाचक्षते ॥ त्रीनुक्तान्
विहायावशिष्टा एकादश मनवः- स्वारोचिषः, उत्तमः, रैवतः, चाक्षुषः,
सावर्णिः, दक्षसावर्णिः, ब्रह्मसावर्णिः, धर्मसावर्णिः, रुद्रसावर्णिः,
देवसावर्णिः, इन्द्रसावर्णिश्चेति । [प्रथमः स्वायम्भुवो मनुर्दशमकक्ष्यायां
गतः । चतुर्थस्तापसो मनुः स्वयं विष्णुरेव । सप्तमो वैवस्वतः षोडश्यां
कक्ष्यायां गतः । अपरे त्वेकादशात्र ।] दशसु पितृपतिषु पूर्वोक्तान्
यमसोमकव्यवाहान् विहायान्ये सप्त । अष्टौ विष्णोद्वारपालका:-
जय:, विजय:, चण्ड:, प्रचण्ड:, नन्दः, सुनन्द:, कुमुदः, कुमुदेक्षण-
श्चेति । अष्टौ प्रधानगन्धर्वाः । अष्टौ प्रधानाप्सरसः । विश्वकर्मा ।
 
-
 
-
 
१. मरीचिं पूर्वे विद्वांस एकान्नविंश्यां कक्ष्यायां पठन्ति । अयं भूतवायुमानीति गीतातात्पर्ये स्थितम् ।
आकाशमानी भूतवायुमानी च समानाविति चैतरेयभाष्यादवगम्यते । तेन मरीचिरेकान्नविंश्यां
पठितेषु प्रधानः, अष्टादश्यां कक्ष्यायां पठिताद् गणपतेः किञ्चिन्यूनः । प्रायस्तत्समान इति
ज्ञायते ।