This page has been fully proofread once and needs a second look.

७६
 
८. पुरन्दरः । कामश्च । सुपर्णीवारुणीपार्वतीभ्यो दशगुणावराः ।
 

 
[ वाली गाधिर्विकुक्षिश्च पार्थ इन्द्रः पुरन्दरः ।

सुदर्शनश्च भरतः प्रद्युम्नः स्कन्द एव च ।

सनत्कुमार: कामश्चेत्येक एव व्यवस्थितः ॥]
 
ता. मी.
 
-
 

 
९. शरीरमानी अहम्प्राणः [४९मरुत्सु प्रधानः]। पुरन्दरकामाभ्यां दश-

गुणावरः ।
 

 
१०. पुरन्दरपत्नी शची । कामपत्नी रतिः । कामपुत्रोऽनिरुद्धः । बृहस्पतिः ।

स्वायम्भुवमनुः । दक्षप्रजापतिश्च । अहम्प्राणाद् दशगुणावराः ।
 

 
११. स्पर्शमानी प्रवहः [४९ मरुत्सु द्वितीय:] । अनिरुद्धादिभिः पञ्च-

गुणावरः ।
 

 
१२. चन्द्रः । सूर्यः । सूर्यपुत्रो यमः । स्वायम्भुवमनुपत्नी शतरूपा च ।

[द्वादशस्वादित्येषु सूर्यस्तृतीयः । तत्र प्रथमो विष्णुर्वामनोऽदित्यां

जातः । इन्द्रानुजतया जात इति तमुपेन्द्रमाचक्षते । द्वितीयोऽष्टमकक्ष्यागतः

पुरन्दराख्य इन्द्रोऽदित्यां पूर्वजातः । ] एते प्रवहाद् द्विगुणावराः । अनि-

रुद्धादिभ्यो दशगुणावराः ।
 

 
१३. वरुणः [द्वादशस्वादित्येषु चतुर्थः] ।
 

 
१४. नारदः ।
 

 
१५. अग्निः [अष्टवसुषु प्रधानः] । वरुणपुत्रो भृगुमुनिः । दक्षप्रजापतिपत्नी

स्वायम्भुवमनुपुत्री प्रसूतिश्च । एते चन्द्रादिभ्यो दशगुणावराः ।
 

 
१६. वैवस्वतमनुः । विश्वामित्रः । महर्षयः सप्त पूर्वे- मरीचिः, अत्रिः,

अङ्गिराः, पुलस्त्य:, पुलहः, क्रतुः, वसिष्ठश्चेति ।