This page has not been fully proofread.

स्तुतिभू.
 
कल्याणतमं हि रूपमामनन्ति तस्य । अथच ज्योतिर्मयः पुरुष इति परमात्मानं
गिरन्ति । प्रकाशात्मा भगवानिति च । आकारविशेष एव हि प्रकाशो
नाम । यदि स निराकारः, तर्हि न स्यात् प्रकाशरूपोऽपि ॥
 
१२
 
'किं तर्हि भगवानिति पुञ्जीभूतं तमः ? तमस उपासनया प्रायस्तम एव
शरणम् । नूनं वयमपि मायावादे विश्वस्य तमसि निपतेम । नहिनहि,
नेयमुपासना मनसि लगति । नायं मायावादश्चित्तमावर्जयति ॥
 

 
'इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति निगदन्ति । भारतपुराणादिभिः
समुपबृंह्य, सर्वमविरोधेन समन्वित्य वेदवचसामर्थानुसन्धाने कृते भगवतो
गुणानुध्यानमेव शास्त्रानुमतमिति प्रतीयते । अयमिह प्रायः शास्त्रपरमार्थः–
आचारवता भाव्यम् । निरन्तरं भगवद्गुणपारम्यचिन्तानिरतेन भाव्यम् । तथा
च भगवदाराधनमेव श्रेयःसाधनमिति भाति । तेनायमेव मया चरितव्यः
साधीयानध्वा' ॥
 
एवं विचिन्तयति त्रिविक्रमपण्डिते भगवत्पादेन श्रीमध्वेनानावृतस्य तत्व-
वादस्य विसृता प्रथा तस्य कर्णपथं पपात । तच्चिन्तनसरणेः पुष्टिकराणि
समग्रसंशयहराणि तत्ववादे वचांसि बभूवुः । लिकुचपण्डितस्यान्तरङ्गं तदैव
श्रीमध्वस्य तत्ववादमालिलिङ्ग ॥
 
तस्मिन्नेवानेहसि श्रीमध्वभगवान् समग्रे भारते विहितसञ्चारः प्रतनस्य
अथापि स्वोपज्ञमाविष्कृतस्य तत्ववादस्य जयघोषमुज्जुघोष । मायावादे
बद्धादराः पण्डितास्तेनाऽतङ्किता बभूवुः । तेषामिदं गलदाहि खण्ड-
खाद्यं समपद्यत । ते त्रिविक्रमपण्डितं शरणमीयुः । एत्य च तं विज्ञाप-
याञ्चक्रिरे-
'एकः प्रचण्डतमो वाग्ग्मी किलाऽजग्मिवान्, मध्वोमध्व इति, पूर्णप्रज्ञ
इति, आनन्दतीर्थ इति । स परम्परागतां दृढनिबद्धां श्रद्धामेवाद्धा विध्वंस -
यति । इलथयति सनातनं सम्प्रदायम् । शिथिलयति विश्रम्भसौधम् । स