This page has not been fully proofread.

मेधा मुक्तिर्विष्णुभक्तिरादिगोपो महाप्रभुः ।
ऋजुः सुमानो विज्ञाता महाध्याता महागुरुः ॥
 
हनूमान् भीम आनन्द इत्यादिबहुरूपिणः ।
हिरण्यगर्भा येऽतीता ये भाव्या य वर्तते ॥]
 
४. हिरण्यगर्भपत्नी सरस्वती । मुख्यप्राणपत्नी भारती च । ब्रह्मवायुभ्यां
शतगुणावरे ।
 
[सरस्वती च गायत्री श्रद्धाऽऽद्या प्रीतिरेव च ।
सर्ववेदात्मिका बुद्धिरनुभूतिः सुखात्मिका ॥
गुरुभक्तिर्हरौ प्रीति: सर्वमन्त्रात्मिका भुजिः ।
शिवकन्येन्द्रसेना च द्रौपदी काशिजा तथा ।
चन्द्रेत्यादिस्त्ररूपा यास्तेभ्यः शतगुणावराः ॥]
 
७५
 
गरुडः । शेषः । रुद्रश्च [एकादशरुद्रेषु यः प्रधानः] । सरस्वतीभारतीभ्यां
शतगुणावराः ।
 
[ शेषः सदाशिवचोर्ध्वस्तपोsहङ्कार एव च ।
नरोऽवटो लक्ष्मणश्च रौहिणेयः शुकस्तथा ॥
सद्योजातो बामदेवश्राघोरस्तत्पुमानपि ।
दुर्वासा द्रौणिरौर्वश्च जैगीषव्यादिरूपकः ॥]
 
६. विष्णोः कृष्णावतारे षण्महिष्यो नीला, भद्रा, मित्रविन्दा, काळिन्दी,
लक्षणा, जाम्बवती च । [आसु जाम्बवती प्रधाना । लक्ष्म्या विशेषा-
वेशदशायां शेषतुल्या ।] गरुडशेषरुद्रेभ्यः पञ्चगुणावराः ।
 
७. गरुडपत्नी सुपर्णी । शेषपत्नी वारुणी । रुद्रपत्नी पार्वती च ।
गरुडशेषरुद्रेभ्यो दशगुणावराः ।
 
38