This page has been fully proofread once and needs a second look.

मेधा मुक्तिर्विष्णुभक्तिरादिगोपो महाप्रभुः ।

ऋजुः सुमानो विज्ञाता महाध्याता महागुरुः ॥
 

 
हनूमान् भीम आनन्द इत्यादिबहुरूपिणः ।

हिरण्यगर्भा येऽतीता ये भाव्या यश्च वर्तते ॥]
 

 
४. हिरण्यगर्भपत्नी सरस्वती । मुख्यप्राणपत्नी भारती च । ब्रह्मवायुभ्यां

शतगुणावरे ।
 

 
[सरस्वती च गायत्री श्रद्धाऽऽद्या प्रीतिरेव च ।

सर्ववेदात्मिका बुद्धिरनुभूतिः सुखात्मिका ॥

 
गुरुभक्तिर्हरौ प्रीति: सर्वमन्त्रात्मिका भुजिः ।

शिवकन्येन्द्रसेना च द्रौपदी काशिजा तथा ।

चन्द्रेत्यादिस्त्ररूपा यास्तेभ्यः शतगुणावराः ॥]
 

 

 
. गरुडः । शेषः । रुद्रश्च [एकादशरुद्रेषु यः प्रधानः] । सरस्वतीभारतीभ्यां

शतगुणावराः ।
 

 
[ शेषः सदाशिवचोर्ध्वस्तपोsहङ्कार एव च ।

नरोऽवटो लक्ष्मणश्च रौहिणेयः शुकस्तथा ॥

 
सद्योजातो बामदेवश्राघोरस्तत्पुमानपि ।

दुर्वासा द्रौणिरौर्वश्च जैगीषव्यादिरूपकः ॥]
 

 
६. विष्णोः कृष्णावतारे षण्महिष्यो नीला, भद्रा, मित्रविन्दा, काळिन्दी,

लक्षणा, जाम्बवती च । [आसु जाम्बवती प्रधाना । लक्ष्म्या विशेषा-

वेशदशायां शेषतुल्या ।] गरुडशेषरुद्रेभ्यः पञ्चगुणावराः ।
 

 
७. गरुडपत्नी सुपर्णी । शेषपत्नी वारुणी । रुद्रपत्नी पार्वती च ।

गरुडशेषरुद्रेभ्यो दशगुणावराः ।
 
38