This page has not been fully proofread.

७४
 
तारतम्यमीमांसा
 
नत्वा नारायणं देवं मध्वं मूलगुरुं तथा ।
प्रणीयते तारतम्यमीमांसा हरितुष्टये ।
 
विष्णोः सर्वोत्तमत्वं वायोश्च जीवोत्तमत्वं न सम्यगवगम्यते विना
तारतम्यमीमांसाम् । विष्णुभक्तिश्च सर्वाधिका न देवतासु परिवारभूतासु
तारतम्यपरिज्ञप्तिं विना शक्यमनुसन्धातुम् । तत इयं तारतम्यमीमांसा प्रस्तूयते-
१. परमपुरुषो नारायणः । गुणतो देशतः कालतः शक्तितश्चानन्तः ।
 
[मत्स्यकूर्मक्रोडसिंहबटुभार्गवराघवाः ।
कृष्णबुद्धौ कल्किदत्तहयशीपैंतरेयकाः ॥
पाराशर्यश्च कपिलो बैकुण्ठो वृषभस्तथा ।
यज्ञो धन्वन्तरिश्चैव स्त्रीरूपस्तापसो मनुः ॥
नारायणो हरिः कृष्ण उपेन्द्राः सर्व एव च ।
एवमाद्या हरे: साक्षात् प्रादुर्भावाः प्रकीर्तिताः ॥]
२. परा प्रकृतिर्लक्ष्मीः । नारायणादनन्तांशावरा ।
 
[श्रीर्भूर्दुर्गाऽम्भ्रिणी ह्रीच महालक्ष्मीच दक्षिणा ।
सीता जयन्ती सत्या च रुग्मिणीत्यादिभेदिता ॥]
३. हिरण्यगर्भः । मुख्यप्राणश्च । लक्ष्म्याः कोटिगुणावरौ ।
[प्राण: सूत्रं महान् ब्रह्मा चित्तं वायुर्बलं धृतिः ।
स्थितिर्योगच वैराग्यं ज्ञानं प्रज्ञा स्मृतिः सुखम् ॥