This page has been fully proofread once and needs a second look.

७२
 
सुब्रह्मण्याख्य-सूरेः सुत इति सु-भृशं केशवानन्दतीर्थ-

श्रीमत् -पादाब्ज - -भक्तः स्तुतिमकृत हरेर्वायु- देवस्य चास्य ।
तत्-

तत्-
पादार्चादरेण ग्रथित -पद- लसन्मालया त्वेतया ये

संराद्ध्याम् नमन्ति प्रतत- मति मू नमन्ति प्रतत- मति-गुणा -मुक्तिमेते ब्रजन्ति ॥
 
-
 

॥ ४१ ॥
 
बायुस्तुतिः
 

 
इति त्रिविक्रमपण्डिताचार्यविरचिता वायुस्तुतिः समाप्ता ॥

 
(कविक.) सम्प्रति भगवान् स्तोत्रकर्ता त्रिविक्रमाचार्यः स्तोत्रमुपसंहरन्

स्वाभिजात्यप्रख्यापनायाऽत्मीयप्रसिद्धकुलदेवताचार्यजनकनामाभिधान-

पूर्वकमेतत्स्तोत्रपाठकानां फलमभिधत्ते -- सुब्रह्मण्येति । सुब्रह्मण्याख्यसूरेः

सुब्रह्मण्यविपश्चितः सुतः पुत्रः । सुभृशं अत्यर्थम् । केशवः श्रीनारायणः ।

आनन्दतीर्थश्च । तयोः श्रीमत्पादाब्जभक्त: श्रीमच्चरणनलिनसेवकस्त्रिविक्रमा-

चार्यः । हरेः श्रीवासुदेवस्य । अस्य स्तोत्रनायकस्य श्रीवायुदेवस्य च । इति

पूर्वोक्तप्रकारेण । 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः । स्तुतिं

स्तोत्रम् । 'स्तवः स्तोत्रं नुतिः स्तुतिः' इत्यमरः । अकृत कृतवान् । ये तु

ये केचन सज्जनाः । एतया मया कृतया । तयोः केशवानन्दतीर्थयोः

पादार्चादरेण श्रीमच्चरणपूजाकरणेच्छया'[^१] । ग्रथितया रचितया पदानां सुप्ति-

ङन्तरूपाणां लसन्मालया विलसत्स्रजा । मालापदसन्निधानेन सुप्तिङन्तप-

दानां पुष्पत्वमवसेयम् । अमू केशवानन्दतीर्थी संराध्य सम्पूज्य नमन्ति

नमस्कारं कुर्वन्ति । त एते जनाः । प्रततमतिगुणाः अतिविशदापरोक्षज्ञानगुणाः

सन्तः । मुक्तिं मोक्षं व्रजन्ति प्रयान्ति[^२] ॥ ४१ ॥
 

 
कविकर्णामृतं नाम्ना वेदत्मयतिना कृतम् ।

व्याख्यानं वेति(?भातु) नामैतदासुधांशुदिवाकरम् ॥
 

 
[^
.] 'पूजेच्छया' इति पा.।
 

 
[^
.] 'व्रजन्ति यान्ति' इति पा
 
. ।