This page has been fully proofread once and needs a second look.

वन्दे मन्दाकिनी-सत्-सरिदमल-जलासेक-साधिक्य सङ्गं
वन्देऽहं देव भक्त्या भव-भय-दहनं सज्जनान्मोदयन्तम् ॥
॥ ४० ॥
 
(कविक.) स्तोत्रावसाने स्तोता भक्त्युद्रेकाद्भगवन्तं भूयोभूयः प्रणमति–-
वन्द इति । हे देव श्रीमुख्यप्राण । तं तथा लोकवेदप्रसिद्धम् । त्वा
त्वाम्। 'त्वामौ द्वितीयायाः' (अ.सू.८.१.२३) इति त्वादेशः । अहं भक्त्या
वन्दे । नमामि स्तौमि च । 'वदि अभिवादनस्तुत्योः' इत्यस्माल्लडुत्तम-
पुरुषैकवचनम् । देववृन्दैः सुरनिकरैः । दिनेदिने अनुदिनम् । वीप्सायामव्ययी-
भावः । आसेवितम् । आ समन्तात् सेवया पूजितमित्यर्थः । सुपूर्ण-
प्रमतिम् । सुपूर्णा अन्यूना प्रमतिः प्रज्ञा यस्य तम् । पूर्णप्रज्ञनामान-
मित्यर्थः । वन्दे । ईशे श्रीविष्णौ । कर्मणोऽधिकरणविविक्षायां[^१] सप्तमी ।
नियतं अवश्यम् । न्दारुं अभिवादकम् । 'वन्दारुरभिवादकः' इत्यमरः ।
श्रियः उत श्रीदेव्याश्च वन्दारुं वन्दनशीलम् । 'शृवन्द्योरारु:' (अ.सू.
३.२.१७३) इत्यारुप्रत्ययः । श्रिय इति कर्मणः शेषत्वविवक्षायां षष्ठी । नतु
कृद्योगलक्षणा । तस्याः ' न लोक–'(अ.सू.२.३.६९) इत्यादिना प्रति-
षेधात् । श्रीमदानन्दतीर्थं वन्दे । मन्दाकिनीसरित् सुरनदी[^२] । तस्याः अमलजलं
निर्मलोदकम् । तस्य आसेक: अभिषेकः । तस्मात् । अधिकस्य भावः
आधिक्यम् । तेन सह वर्तत इति साधिक्यः सङ्गः यस्य तम् । भवभय-
दहनम् । भवः संसारः । तस्माद्भयं साध्वसम् । तस्य दहनं अग्निम् ।
दाहकमित्यर्थः । सज्जनान् साधुजनान् मोदयन्तं हर्षयन्तं[^३] भवन्तं वन्दे
नमामि ॥ ४० ।॥
 
(स्तुतिचं.) ईशे भगवति विषये । नियतं सदा वन्दारुं वन्दनशीलम् । श्रिय
उत श्रियश्च वन्दारुम् । श्रिय ईशे श्रीपतौ वा । मन्दाकिनीपुण्यजलाभिषेकादपि
यस्य सङ्गोऽधिकफलः । आधिक्येन सहितः साधिक्यः सङ्गः ॥ ४० ॥
 
[^१] अधिकरणत्वविवक्षायामित्यर्थः ।
 
[^२] 'पुण्यनदी' इति पा. ।
 
[^३] 'हर्षं प्रापयन्तम्' इति पा. ।