This page has not been fully proofread.

वायुस्तुतिः
पारिव्राज्याधि - राज: पुनरपि बदरीं प्राप्य कृष्णं च नत्वा
कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थ-
प्रकाशम् ॥ ३९ ॥
 
( कविक.) स्तोत्रकर्तेदानीं तज्जन्मभूमिनिजगृहवर्णाश्रमान् विवृण्वन् न
केवलं तत्रभवद्भिर्ब्रह्मसूत्रभाष्यमेव कृतम् । किन्तु पुनः बदरिकाश्रमं च गत्वा'
भगवद्वादरायणनमस्कारपूर्वकं श्रीगीताभाष्यादिकं कृतमिति विज्ञापयति-
भूत्वेति । हे मुख्यप्राण । भवान् विशुद्धे पवित्रे । द्विजगणनिलये । द्विजगणस्य
ब्राह्मणसमूहस्य निलये आश्रये । रूप्यपीठाभिधाने रजतपीठनाम्नि । त्रिभु-
वनविशदे लोकत्रयप्रसिद्धे । क्षेत्रे देशविशेषे । तत्रापि देशविशेषेऽपि ।
मध्यगेहाख्यगेहे मध्यगृहाभिधानस्य गृहे । ब्रह्मजातिः ब्राह्मणो भूत्वा ।
पारिव्राज्याधिराजः सन्न्याससाम्राज्यसार्वभौमः सन् पुनरपि बदरीं श्रीमद्भ-
दरिकाश्रमं प्राप्य । कृष्णं वेदव्यासं च नत्वा प्रणम्य । भाष्याणि श्रीम-
गीताभाष्यदीनि कृत्वा भारतार्थप्रकाशं च व्यतनुत अकुरुत । श्रीमहा-
भारततात्पर्यनिर्णयाख्यग्रन्थविशेषेणेत्यर्थः ॥ ३९ ॥
 
(स्तुतिचं.) 'विमलं विशदं वीघ्रम्' इति च । त्रिभुवनविशदे क्षेत्रे, तत्रापि
मध्यगेहाव्यस्य '' इति भाषायाम्, गेहे सदने भार्यायां वा
भूत्वा । पुनरपि द्वितीयवारम् । गीताब्रह्मसूत्रोपनिषदामृचां च कती-
नाञ्चन भाष्याणि कृत्वा भारतार्थप्रकाशं महाभारतात्पर्यनिर्णयं च विरचया-
-
 
मास ॥ ३९ ॥
 
वन्दे तं त्वा सु-पूर्ण- प्रमतिमनु- दिनासेवितं देव-वृन्दै-
वन्दे वन्दारुमीशे श्रिय उत नियतं श्रीमदानन्दतीर्थम् ।
 
२. 'श्रीमन्महा-' इति पा ।
 
१. 'किन्तु बदरिकाश्रमं गत्वा' इति पा. ।
३. 'ग्रन्थविशेषमित्यर्थः' इति पा. ।