This page has been fully proofread once and needs a second look.

श्लो.३८-३९
 
६९
 
च सङ्ख्याचापाग्रयोरपि' इति निघण्टुः'[^१] । 'तृतीयादिषु भाषितपुंस्कं पुंव-

द्
गालवस्य' (अ.सू.७.१.७४) इति पुंवद्भावे,[^२] 'इकोऽचि विभक्तौ'

(अ.सू.७.१.७३) इति नुमभावः । शिरसि दधत् दधानः । 'नाभ्यस्ता-

च्छतुः' (अ.सू.७.१.७८) इति नुम्प्रतिषेधः । अक्लिष्टकर्मा अनवद्यव्यापारः

त्वम् । देवसङ्घैः देवसमूहैः । अनुसरणात् अनुसरणं प्राप्य । कर्मणि ल्यब्लोपे

पञ्चमी । प्रार्थितः अभ्यर्थितः सन् । भूमौ आगत्य । आगमनक्रियाधिक-

रणविवक्षायां सप्तमी । दस्योः चोरात् । विश्वापहारित्वादिति भावः ।

मणिमतः सङ्करात् उदितं उत्पन्नम् । दुर्भाष्यम् । अनुभवश्रुतिस्मृतिविरुद्ध-

त्वात्तस्य दुष्टत्वादितिौंति[^३] भावः । वेदैः सयुक्तिभिः सदुपपत्तिभिश्च व्यस्य

निरस्य । असुकरं असर्वज्ञैः कर्तुमशक्यम् । ब्रह्मसूत्रस्य भाष्यं अकरो:

कृतवानसि ॥ ३८ ॥
 

 
(स्तुतिचं.) 'आहुः किरीटमुष्णीषं कोटीरम्' इति च । परितः प्रसर्पद्रश्मि

कोटी कोटीराग्रं वा । 'कोटिरुत्कर्षसङ्ख्ययोः' इति च । नारायणस्य कृष्ण-

द्वैपायनस्य चाऽज्ञां शिरसि दधत् । अनुसरणं विधाय देवगणैः प्रार्थितः ।

मणिमत उदितं वचनम् । उद्भूतं वा । ऐकात्म्यवादेन शास्त्रदस्योः। 'प्राकाश्या

ह्येते तस्कराः' इति च श्रुतिः । 'याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः'

इति च भारते । परमात्मापहारिणो वा । 'योऽन्यथा सन्तमात्मानमन्यथा

प्रतिपद्यते । किं तेन न कृतं पापं चोरेणाऽत्माहारिणा' इति तत्रैव । वेदवचनैः

सद्युक्तिभिश्च व्यस्य निरस्य ॥ ३८ ॥
 

 

 
भूत्वा क्षेत्रे विशुद्धे द्विज-गण-निलये रूप्य-पीठाभिधाने

तत्रापि ब्रह्म-जातिस्त्रि- भुवन -विशदे मद्ध्य-गेहाख्य-गेहे ।
-
 

 
[^
. १] ' इत्यमरः' इति पा. । परन्त्वमरकोशे नैतत् पठ्यते ।

 
[^
.] 'भाषितपुंस्कमित्यादिना पुंबद्भावे' इति पा. ।
 

 
[^
.
 
] 'दुष्टत्वमिति' इति पा. ।
 
35