This page has been fully proofread once and needs a second look.

६८
 
'शरण्यं शरणं जग्मुर्नारायणमनामयम् ।

'तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥

 
'अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।

'उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥

 
'चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः ।

'शतधा चैकधा चैव तथैव च सहस्रधा ॥

 
'कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये।

'चकार ब्रह्मसूत्राणि ......…' इति ॥ ३७॥
 
वायुस्तुतिः
 

 
(स्तुतिचं.) अन्धैरस्तव्यस्तं व्याकीर्णं रत्नपूगमिवाधमैरस्तव्यस्तं यथाकथा

च कथितं श्रुतिगतमर्थजातं सूत्रेषु निबबन्ध । तत्प्रसादात् सद्यो

भगवविद्योपलब्ध्यै ॥ ३७ ॥
 

 
आज्ञामन्यैरधार्यां शिरसि परि-सरद् - -रश्मि - -कोटीर-कोटौ

कृष्णस्याक्लिष्ट-कर्म्मा दधदनु- सरणादतिो देव-सङ्घैः ।

भूमावागत्य भूमन्नसुकरमकरोर्ब्रह्म -सूत्रस्य भाष्यं

दुर्भाष्यं व्यस्य दस्योर्म्मणिमत उदितं वेद-सयुक्तिभिस्त्वम् ॥
 

॥ ३८ ॥
 

 
( कविक.) भगवता बादरायणेन ब्रह्मसूत्राणि कृत्वाऽऽज्ञापितभाष्यादिक-

रणरूपकार्यस्त्वं तदाज्ञां शिरसाऽङ्गीकृत्य भूमाववतीर्णः सन् यावत्परमतं न

निराक्रियते तावत्स्वमतमप्रतिष्ठितं भवतीति न्यायादितरदुर्भाष्यनिराकरण-

पूर्वकं श्रीमद्भाष्यं कृतवानसीति विज्ञापयति- आज्ञामिति । हे भूमन्

महामहिमन् । कृष्णस्य श्रीवेदव्यासस्य । अन्यैः त्वदितंरैर्देवैः अधार्यां

अङ्गीकर्तुमशक्याम् । आज्ञां अनुशासनम् । परिसरन्तः प्रसरन्तः रश्मयो यासां

ताः । कोटीराणां मकुटानां कोटयः अग्राणि यस्य तस्मिन् । 'कोटिरग्रे प्रकर्षे