This page has been fully proofread once and needs a second look.

श्लो.३७
 
अस्त-व्यस्तं समस्त - -श्रुति -गतमधमै रत्न -पूगं यथाऽन्धै-

रर्
त्थं लोकोपकृत्यै गुण-गण-निलयः सूत्रयामास कृत्स्नम् ।

योऽसौ व्यासाभिधानस्तमहमहरहर्भक्तितस्तत्-प्रसादात्

सद्यो - -विद्योप- लब्ध्यै गुरु-तममगुरुं देव-देवं नमामि ॥ ३७॥

 
(कविक.) व्यासत्वेनावतीर्णो भगवान् किमकरोदित्याकाङ्क्षायां व्यासाव-

तारप्रयोजनाभिधानपूर्वकं तं प्रणमति - अस्तव्यस्तमिति । गुणाः ज्ञाना-

नन्दादयः । तेषां गणः समूहः । तस्य निलयः निवासः । व्यासाभिधानः

श्रीवेदव्यासनामकः । योऽसौ प्रकृतत्वेन वर्णितो भगवान् । अधमैः अज्ञैः ।

अन्धैः यथा। 'इवयद्वायथाशब्दा उपमाने प्रकीर्तिताः' । अस्तव्यस्तं अन्यथा

प्रतिपादितम् । रत्नपूगपक्षे तरतमाभावेन प्रोतम् । समस्तश्रुतिगतं सर्ववेद-

स्थितम् । अन्यत्र प्रसिद्धतया सकलजनश्रुतिपथगतम् । कृत्स्नं समस्तं

अर्थम् । रत्नपूगं रत्नसमूहमिव । लोकोपकृत्यै लोकोपकाराय । लोकप्रसाधनाय

च । सूत्रयामास 'अथातो ब्रह्मजिज्ञासा' इत्यादिसूत्रेषु प्रतिपादयामास ।

अन्यत्र तन्तुप्रोतं चकारेत्यर्थः । अहं तत्प्रसादात् तस्योत्तमप्रसादात्[^१] । सद्यो

विद्योपलब्ध्यै अविलम्बेन ज्ञानप्राप्त्यर्थम् । 'सर्वेऽपि पुरुषार्थाः स्युर्ज्ञानादेव

न संशयः' इति ज्ञानस्य सर्वपुरुषार्थ प्रदत्वादिति भावः । अहरहः प्रति-

दिनम् । अगुरुं अविद्यमानगुरुम् । गुरुतमं परमगुरुम् । देवदेवं देवोत्तमं

श्रीवेदव्यासम् । भक्तितः भक्त्या नमामि प्रणतोऽस्मि । अत्र श्लोकद्वये

स्कान्दपुराण[^२]स्थितोऽर्थः प्रतिपादितः । तथाहि-
-
 
'नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।

'किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥

 
'गौतमस्य ऋषेः शापाज्ज्ञाने त्वज्ञानतां गते ।

'सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरःसराः ॥
 

 
[^
.] ' – प्रसादतः' इति पा
 
. ।
 
[^
.
 
] 'स्कन्दपुराण–' इति पा. ।
 
34