This page has been fully proofread once and needs a second look.


 
वायुस्तुतिः
(कविक.) ज्ञानदानपात्रराहित्यात् संसारसमुद्रे निमज्जतो जन्तून् वीक्ष्य

कृपया ज्ञानदानेन तानुद्धर्तुं भवद्भिर्विज्ञापितो भगवान् व्यासरूपेणाऽविरा-

सीदिति विज्ञापयति– सानुक्रोशैरिति । जनिर्जननम् । मृतिर्मरणम् । निरयो

नरकः[^१] । ते आदयो येषां तान्येव ऊर्मयः । तासां मालाः पङ्क्तयः । ताभिः

आविले कलुषिते । अस्मिन् परिदृश्यमाने । संसाराब्धौ संसारसमुद्रे । अजस्रं

अनवरतम् । निमग्नान् निपतितान् । अशरणान् अरक्षकान्"[^२] । 'शरणं

गृहरक्षित्रोः' इत्यमरः । शरणं रक्षकं इच्छतः आकाङ्क्षतः । जन्तून् प्राणिनः

वीक्ष्य आलोक्य । अनुक्रोशः कृपा । तेन सह वर्तन्त इति सानुक्रोशैः ।

'तेन सह–'(अ.सू.२.२.२८) इत्यादिना बहुव्रीहिः । युष्माभिः प्रार्थितः

याचितः । जलनिधिशयनः श्रीनारायणः । सत्यवत्यां सत्यवतीदेव्याम् । महर्षेः

पराशरात् । चिन्मात्रमूर्तिः केवलज्ञानदेहः सन् व्यक्तः आविर्भूतः । यदुक्तम्-

'यदात्मको भगवांस्तदात्मिकी व्यक्तिः । किमात्मको भगवान् । ज्ञानात्मकः

ऐश्वर्यात्मकः शक्त्यात्मकः' इति ।
 

 
'सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।

'ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ॥'
 

 
'बुद्धिमान्मनोवानङ्गप्रत्यङ्गवान्' इति।
 

 
भगवतः श्रीनारायणस्य देहः । जातु कदाचित् । 'कदाचिज्जातु' इत्यमरः ।

प्राकृतः प्रकृतिसम्बन्धी निश्चेतनात्मकशरीरगुणो न खलु न भवति हि ।

[^३]
तदुक्तम्-- 'निश्चेतनात्मकशरीरगुणैश्च हीनः' इति ॥ ३६ ॥
 

 
( स्तुतिचं.) संसारसागरे निमग्नान् शरणं त्रातारमिच्छतो जनान् वीक्ष्य

सानुकम्पैर्युष्माभिः प्रार्थितः महर्षेः पराशरात् अभिव्यक्तः । यतोऽस्यावतारेष्वपि

न प्राकृतो देहः ॥ ३६ ॥
 

 
[^
]. 'नरकम्' इति पा. ।
 

 
[^२] पूर्वोक्तरीत्या संसारसागरतरणोपायमजानत इति वा ।
 
[^
.
 
] 'यदुक्तम्' इति पा. ।
 
२. पूर्वोक्तरीत्या संसारसागरतरणोपायमजानत इति वा ।