This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
११
 
स कदाचिदुपहरे स्थित एवं चिन्तयाञ्चकार- 'भगवान् किल बादरायणो

वेदानामर्थनिर्णयाय ब्रह्मसूत्राणि व्यरीरचत् । तानि क्षुद्रबोधानां जनानां

दुरधिगमान्येवाऽसन् । पाश्चात्याश्च विपश्चितस्तेषां भाष्याणि यथामनीष-

मभाषिषत । एकैकस्यापि विभिन्नः पन्थाः । परस्परमितरान् खण्डयन्तः

स्वप्रज्ञावादं मण्डयामासुः । सर्वोऽपि स्वोक्त एव सूत्रार्थ इत्युवाद

सर्वोऽपि स्वस्वमेव पन्थानमनुपपात । न कोऽपि प्रायो बादरायणाभिमतं

पन्थानम् । कथङ्कारमेतेषु कोऽपि विश्वस्यात्, विश्वस्य वा श्रद्धधीत ?

कथन्तरामेते प्रज्ञावादमात्रबला आध्यात्मिके पथि मार्गनिदर्शका इत्यङ्गी-
करवाम?
 

करवाम?
 
'अहं तु साम्प्रतं शाङ्करं सम्प्रदायमनुसरन् वर्ते । मदीयोऽयं मायावाद इत्येतं

विधूय पूर्वाग्रहं मुक्तहृदयं सर्वमैचिक्षिषे । तदा मदनुसृतमेव मतं स्वव्याहतं

कोलाहलकलुषितं भासते । अथापि न सहसा परम्परां विचिच्छित्सामि ।

पुनरपि गाढमन्तः प्रविश्य शाङ्करं हृदयमन्वेषणीयम्, अन्विष्य चावगन्त-

व्यमिति निरन्तरं प्रयते ॥
 

 
'उपनिषदः किमुपदिशन्ति ? भेदम्,
 
आहोस्विदभेदम् ? अल्पधिषणानामग-

म्योऽयमुदन्तः । गाढं विमर्शेऽपि निकामं निगूढमेव तिष्ठत्यौपनिषदं

तत्वम् । न जातु स्वहृदयं विवृत्य ताः प्रकटयन्ति । सकृदित्थमिति,

सकृन्नेत्यमिति विभ्रमजाले निपातयन्ति ॥
 

 
'अथापि भगवदुपासनयैव बन्धमुक्तिरिति सर्वशास्त्राणामैककण्ठ्यम् । का

नामोपासना? कीदृशी चेयमुपासना ? किं निराकारो निर्गुणो भगवानिति?

उत साकारः सगुण इति? किमहं ब्रह्मेति ? उत मम स्वामी परं ब्रह्म नारायण

इति?
 

 
'विदन्तो वदन्ति–सच्चिदानन्दात्मा भगवानद्वितीय इति । सत्यं ज्ञानमनन्तं

ब्रह्मेति । एकमेवाद्वितीयं ब्रह्मेति । स कथं निराकारः स्यात् ? चिदानन्दमयं
 
6