2023-02-23 05:35:03 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
इति सम्प्रदानसञ्ज्ञायां चतुर्थी स्यात्
यन्तीम् । श्रुतौ चितानि विद्यमानानि वचनानि वाक्यानि यस्यां ताम्
अत्युच्चां अत्युत्कृष्टाम् । उत्खातदुःखाम् । उत्खातानि उन्मूलितानि दुःखानि
यया ताम् । चित्रां विविधश्रुतिस्मृतीतिहासपुराणाद्युपन्यासेनाऽश्चर्यरूपां
व्याख्यां व्याख्यानम् । तेन तव चिन्तारतान् ध्याननिरतान् । चरणपरिचरान्
श्रीपादपरिचारकान् अस्मांश्च । किञ्चित् यावद्ग्रहणयोग्यं तावदित्यर्थः । श्रावय
श्रुतिपथं प्रापय ॥ ३४ ॥
(स्तुतिचं.) प्राचीनेषु जन्मसु आचीर्णानां पुण्यानां समुच्चयेन साधावेव
पथि पतितुं सञ्जातपाटवेन समाचारेण पूतचेतसः । चोद्येषु निपुणाश्रोद्य-
चुञ्चवः । प्रश्नोपक्षेपचणाः । प्रसिद्धार्थे चुञ्चुपचणपौ स्मरन्ति वैया-
करणाः । श्रावकान् रोचयन्तीं आनन्दयन्तीम् । श्रावंश्रावं पुनश्च श्रोतव्यं
निरन्तरं श्रोतव्यमिति तर्षं वा जनयन्तीम् । तां व्याख्यां चरणपरिचरानस्मांश्च
किश्चित् श्रावय ॥ ३४ ॥
पीठे रत्नोप-
ब्रह्माणं भाविनं त्वां ज्वलति निज
सेवन्ते मूर्त्तिमत्य: सु-चरित चरितं भाति गन्धर्व
प्रत्येकं देव-संसत्स्वपि तव भगवन्नर्त्तित - द्यो-वधूषु ॥ ३५ ॥
(कविक.) मूर्तिमत्सर्ववैदिकविद्यासेव्यत्वेन स्तुवंस्तव चरितं तत्र देव-
सभासु गन्धर्वगणैः सादरं गीयत इति विज्ञापयति- पीठ इति । हे सुचरित
शोभनचरित्र । निजपदे आत्मीयपदे । रुचिराः मनोहराः रुचयो दीप्तयो येषां
तेषां मणीनां माणिक्यानां ज्योतिषा प्रभया ज्वलति प्रकाशमाने । रत्नैः
[^१
[^२] 'यस्यास्ताम्' इति पा. ।
२.