This page has not been fully proofread.

श्लो. ३४
 
व्याख्यामुत्खात दुःखां चिरमुचित महाचार्य्य चिन्ता-रतांस्ते
चित्रां सच्छास्त्र-कर्त्तश्चरण-परि-चराञ्छ्रावयास्मांश्च किञ्चित् ॥
 
॥ ३४ ॥
 
(कविक.) सच्छास्त्रसन्दर्भतत्त्वं तद्योग्यश्रोतृभ्यो व्याकुर्वाणान् श्रीमदा-
नन्दतीर्थार्यान् कृतार्थबुद्धया तद्व्याख्यानं शुश्रूषुः प्रार्थयते– प्राचीनेति ।
सच्छास्त्राणि ऋगादयश्चत्वारो वेदाः पञ्चरात्रं भारतं मूलरामायणं च । यथोक्तं
स्कान्दे-
'ऋग्यजुसामाथर्वाणो भारतं पञ्चरात्रकम् ।
'मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥
 
६३
 
'यच्चानुकूलमेतस्य तद्धि शास्त्रं प्रकीर्तितम् ।
'अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत्' इति ।
 
तेषां कर्ता व्याकर्ता । तस्य सम्बुद्धिः । हे सच्छास्त्रकर्तः । अथवैतदनुसा-
रिणां भाष्यादिसच्छास्त्राणां कर्तः प्रणेतः । उचितमहाचार्य योग्यपूज्यगुरो ।
प्राचीनं प्राक् । 'विभाषाऽञ्चेरदिक्स्त्रियाम्' (अ.सू.५.४.८) इति विभाषा
खप्रत्ययः । तत्र पूर्वजन्मस्वित्यर्थः । आचीर्णानि आचरितानि पुण्यानि ।
तेषां उच्चयः समूहः । तेन चतुरतराः पटुतराः । आचाराः सत्सम्प्रदाया-
चरणानि । तेभ्यः । 'पञ्चम्यास्तसिलू' (अ.सू. ५.३.७) इति तसिलू-
प्रत्ययः । चारूणि निर्दोषाणि चित्तानि चेतांसि येषां तान् । 'चित्तं तु
चेतो हृदयम्' इत्यमरः । चोद्यैः प्रश्नैः प्रसिद्धाः चोद्यचुञ्चवः तान् । 'तेन
वित्तः–' (अ.सू.५.२.२६) इत्यादिना चुचुप् । श्रावकान् श्रोतॄन् प्रति ।
 

 
१. यद्यपीदं सूत्रं किंसर्वनामबहुभ्यः पूर्वसूत्रादनुवृत्तेभ्यस्तसिल्प्रत्ययं विधत्ते। न सर्वपदेभ्यः पञ्चम्यन्तेभ्यः
इति वैयकरणानां मतम् । अथाप्यन्येषामपि यथाप्रयोगं साधुत्वं पाणिनिर्मन्यते । तदेतद् वार्तिके स्फुटम्-
'तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम्' (५.४.४४) इति । तेनायमाचारत इति तसिः प्रत्ययः इति
वक्तुमुचितमिति भाति ।
 
32