This page has been fully proofread once and needs a second look.

वायुस्तुतिः
 
क्त्रेन्दुबिम्बं शोभावन्मुखचन्द्रमण्डलं अहं कदा नु कदा वा सन्द्रक्ष्ये

आलोकयिष्ये । 'दृशेश्चेति वक्तव्यम्'[^१]' (वा. १. ३.२९) इति सम्पूर्वाशे-

रात्मनेपदम्[^२] ॥ ३३ ।॥
 
६२
 

 
(स्तुतिचं.) मन्दस्मितशोभया सुकुमारम् । मधुमधुर आलाप एव पीयू-

षम् । तस्य धारापूरे पूरेण वा आसेक: अभिषवः । तेन उपशान्तमुपक्षीणमसुखं

दुःखं येषां तेषां सुजनानां सुजनैर्वा मनसा नयनाभ्यां चाऽपीयमानम् ।

मनोहरणमासेचनकं च । इह् भक्तजने मयि, भूमौ वा आनन्दं सन्दुहत् ।

महत् महनीयम् । महान्तमानन्दं वा । महत्तत्वमिति यथा । महच्चाऽनन्दरूपं

ब्रह्म व्याख्यानेन सन्दुहद् वा । महतो मोक्षस्याऽनन्दमिति वा । कदा नित्यदा

सन्द्रक्ष्ये । सदा तदाननं कदा निर्वर्णयेयम् । 'दृशेश्चेति वक्तव्यम्' इति

वार्तिकात् (१.३.२९) आत्मनेपदम् । अकर्मकादित्यनुवर्तनं कवयो नानु-

मन्यन्ते । नित्यं विष्णुं ददाति दर्शयतीति नित्यदो मध्व इति च

व्याचक्षते । नित्यदा उदितं सदोदितमिति वा । नेन्दुबिम्बमिव नक्तमेव ।

बहुगुणतया शास्त्रेषूदितं च ॥ ३३ ॥
 

 
प्राचीनाचीर्ण-पुण्योच्चय-चतुर-तराचारतश्चारु-चित्ता-

नत्युच्चां रोचयन्तीं श्रुति - -चित-वचनां श्रावकांश्रोचोद्य-चुचून् ।
 

 
[^
.] क्वचित् 'अर्तिश्रुदिशिभ्यश्चेति वक्तव्यम्' इति पठ्यते । पाठविभ्रमोऽयं वैयाकरणानाम् । 'दृशेश्चेति

वक्तव्यम्' इति काशिकादृतः पाठः । तत्पक्षे 'समोगम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः' इति सूत्र-

पाठः ।
 

 
[^
.
 
] नन्वकर्मकाच्चेत्यनुवर्तनाद्वक्त्रेन्दुबिम्बं सन्द्रक्ष्य इति कथम् ? इत्थं समाधेयम् । सकर्मकादपि बहुलं

प्रयोगदर्शनात् अकर्मकत्वं प्रायिकमिति वक्तव्यम् । तेन 'आजघ्ने विषमविलोचनस्य वक्षः' इति

भारविः, 'आहध्वं मा रघूत्तमम्' इति भट्टिश्च सङ्गच्छेते । 'रक्षांसीति पुराऽपि संशृणुमहे वीरस्तु

कस्तादृश:' इति मुरारिप्रयोगोऽप्यप्रामादिको भवति । अत एवानर्घराघवव्याख्याने (अङ्क.६.२५)

रुचिपत्युपाध्यायोऽप्याह– 'अकर्मकादिति तत्रानुवर्तत इति प्रायिकम्' इति । यदि सर्वत्राप्यध्याहारे-

णैव योजनीयमित्याग्रहः, अत्रापि तर्हि प्राप्येत्यध्याहृत्य सन्तोष्यतामन्तरात्मा।
 
-