This page has not been fully proofread.

श्लो. ३३
 
उद्यन्मन्द-स्मित-श्री-मृदु मधु-मधुरालाप - पीयूष धारा-
पूरासेकोप- शान्तासुख-सुजन- मनो-लोचनापीयमानम् ।
सन्द्रक्ष्ये सुन्दरं सन्दुहदिह महदानन्दमानन्दतीर्थ
श्रीमद् - वक्त्रेन्दु-बिम्बं दुरित-नुदुदितं नित्य दाहं कदा नु ॥ ३३ ॥
(कविक.) मुख्यप्राणमुखावलोकनस्य सकलपुरुषार्थहेतुत्वात् तत्कदा भवि-
ष्यतीत्याकाङ्क्षति - उद्यन्मन्दस्मितेति । नित्यं वृद्धिक्षयरहितं श्रीविष्णुं भक्त-
जनेभ्यो ददाति दर्शयति यस्तस्य सम्बुद्धिः । हे नित्यद' । 'वृद्धिक्षयौ नतु
परस्य सदातनस्य' इति हि वृद्धिक्षयराहित्यं श्रीविष्णोरुक्तम् । श्रीमदान-
न्दतीर्थ । तव सम्बन्धि उद्यन्मन्दस्मितश्रीमृदु उद्गच्छन्मृदुहसितशोभा-
कोमलम् । मधु क्षौद्रम् । तद्वन्मधुराः मनोहराः । आलापाः आभाषणानि ।
'स्यादाभाषणमालापः' इत्यमरः । त एव पीयूषाणि । तेषां धाराः परम्पराः ।
तासां पूरः निकरः । तेनाऽसेक: अभिषेचनम् । तेन उपशान्तं प्रनष्टं असुखं
येषां तेषां सुजनानां सज्जनानां मनोलोचनैः आपीयमानं आ समन्तादनुभूय-
मानम् । सुन्दरं मनोहरम् । 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्'
इत्यमरः । इह एषु सेवाप्रवृत्तास्मदादिजनेषु । महदानन्दं भूरिसुखं नित्यं
सन्दुहत्" ददत् । दुरितनुत् पापनुत् । उदितं प्रसन्नम् । एतादृशं श्रीमद्व-

 
१. नित्यदा सर्वदेति व्याख्यानं कदेति कालप्रश्नान्न कृतम् । अपिच सर्वदेत्यर्थे नित्यदेति पाणिनिर्न
पठति । स्वरादिषु तु पठन्ति । आकृतिगणत्वात् । प्रयोगश्च भारते - 'त्वमग्रे सर्वभूतानामन्तचरसि
नित्यदा' (आदिप. ५.२८)
 
२.
 
क्वचित् 'मनोज्ञं मञ्जु मञ्जुलम्' इतीयानेव कोशभागः पठ्यते । परन्तु तत्र सुन्दरशब्दो नास्ति ।
३. परममहत्परिमाणमितिवन्महदानन्दमिति कथञ्चिद्योजनीयम् । यद्वा परमश्रौतस्त्रिविक्रमाचार्यः श्रौत-
मानन्दमत्र निर्दिदेश । श्रुतिषु चैतन्यस्वरूस्याऽनन्दस्य नपुंसकेनैव निर्देशात् । तथाहि श्रुतिः- 'विज्ञा-
नमानन्दं ब्रह्म' इति । अथवा महतो मोक्षसाम्राज्यस्याऽनन्द इति व्याख्येयम् । 'महती वल्लकीभेदे
राज्ये स्यात्तु नपंसकम्' इति मेदिनी । 'महद्राज्यविशालयोः' इति विश्वः । 'महदिति व्यस्तम्,
पूज्यमित्यर्थः, वक्त्रेन्दुबिम्बेऽन्वेति' इति च केचित् व्याचक्षते।
 
४. नित्यं दददिति वदता महदानन्दं नित्यदा सन्दुहदिति चान्वयः सूचितः । क्वचित् 'नित्यम्' इति न
 
पठ्यते ।
 
31