This page has been fully proofread once and needs a second look.

श्लो. ३३
 
उद्यन्मन्द-स्मित-श्री-मृदु मधु-मधुरालाप - -पीयूष -धारा-

पूरासेकोप- शान्तासुख-सुजन- मनो-लोचनापीयमानम् ।

सन्द्रक्ष्ये सुन्दरं सन्दुहदिह महदानन्दमानन्दतीर्थ

श्रीमद् - -वक्त्रेन्दु-बिम्बं दुरित-नुदुदितं नित्य -दाहं कदा नु ॥ ३३ ॥

 
(कविक.) मुख्यप्राणमुखावलोकनस्य सकलपुरुषार्थहेतुत्वात् तत्कदा भवि-

ष्यतीत्याकाङ्क्षति - उद्यन्मन्दस्मितेति । नित्यं वृद्धिक्षयरहितं श्रीविष्णुं भक्त-

जनेभ्यो ददाति दर्शयति यस्तस्य सम्बुद्धिः । हे नित्यद'[^१] । 'वृद्धिक्षयौ नतु

परस्य सदातनस्य' इति हि वृद्धिक्षयराहित्यं श्रीविष्णोरुक्तम् । श्रीमदान-

न्दतीर्थ । तव सम्बन्धि उद्यन्मन्दस्मितश्रीमृदु उद्गच्छन्मृदुहसितशोभा-

कोमलम् । मधु क्षौद्रम् । तद्वन्मधुराः मनोहराः । आलापाः आभाषणानि ।

'स्यादाभाषणमालापः' इत्यमरः । त एव पीयूषाणि । तेषां धाराः परम्पराः ।

तासां पूरः निकरः । तेनाऽसेक: अभिषेचनम् । तेन उपशान्तं प्रनष्टं असुखं

येषां तेषां सुजनानां सज्जनानां मनोलोचनैः आपीयमानं आ समन्तादनुभूय-

मानम् । सुन्दरं मनोहरम् । 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्'
[^२]
इत्यमरः । इह एषु सेवाप्रवृत्तास्मदादिजनेषु । महदानन्दं[^३] भूरिसुखं नित्यं

सन्दुहत्"[^४] ददत् । दुरितनुत् पापनुत् । उदितं प्रसन्नम् । एतादृशं श्रीमद्व-

 

 
[^
.] नित्यदा सर्वदेति व्याख्यानं कदेति कालप्रश्नान्न कृतम् । अपिच सर्वदेत्यर्थे नित्यदेति पाणिनिर्न

पठति । स्वरादिषु तु पठन्ति । आकृतिगणत्वात् । प्रयोगश्च भारते - 'त्वमग्रे सर्वभूतानामन्तचरसि

नित्यदा' (आदिप. ५.२८)
 

 
[^
.
 
] क्वचित् 'मनोज्ञं मञ्जु मञ्जुलम्' इतीयानेव कोशभागः पठ्यते । परन्तु तत्र सुन्दरशब्दो नास्ति ।

 
[^
.] परममहत्परिमाणमितिवन्महदानन्दमिति कथञ्चिद्योजनीयम् । यद्वा परमश्रौतस्त्रिविक्रमाचार्यः श्रौत-

मानन्दमत्र निर्दिदेश । श्रुतिषु चैतन्यस्वरूस्याऽनन्दस्य नपुंसकेनैव निर्देशात् । तथाहि श्रुतिः- 'विज्ञा-

नमानन्दं ब्रह्म' इति । अथवा महतो मोक्षसाम्राज्यस्याऽनन्द इति व्याख्येयम् । 'महती वल्लकीभेदे

राज्ये स्यात्तु नपंसकम्' इति मेदिनी । 'महद्राज्यविशालयोः' इति विश्वः । 'महदिति व्यस्तम्,

पूज्यमित्यर्थः, वक्त्रेन्दुबिम्बेऽन्वेति' इति च केचित् व्याचक्षते।
 

 
[^
.] नित्यं दददिति वदता महदानन्दं नित्यदा सन्दुहदिति चान्वयः सूचितः । क्वचित् 'नित्यम्' इति न
 

पठ्यते ।
 
31