This page has been fully proofread once and needs a second look.

बायुस्तुतिः
हनुमदादिप्रादुर्भावेषु । अरिभिः शत्रुभिः । अपगता घृणा यस्मिन् कर्मणि

तत् । हिंसितः प्रहतोऽपि निर्विकारः विकाररहित एव । सर्वज्ञः सर्वार्थ-

वित् । सर्वेषु कार्येषु शक्तिः सामर्थ्यं यस्य स सर्वशक्तिः । सकलगुणगणाः

समस्तज्ञानानन्दादिगुणसमूहाः, तैः आपूर्णरूपं परिपूर्णस्वरूपम्, तेन

प्रगल्भः प्रौढः । स्वच्छ: पापादिलेपरहितः । अत एव स्वच्छन्दमृत्युः

स्वेच्छामृति: । हे देव श्रीमुख्यप्राण । एतादृशस्त्वं सुजनं भक्तजनं सुखयसि

आनन्दयसीति यत् अत्र अस्मिन् सुखदाने किं चित्रम् ? किमाश्चर्यम् ?

'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः । आश्चर्यं नास्तीत्यर्थः । तथाहि– यस्य

तव त्रीणि अनन्तासनवैकुण्ठक्षीरार्णवरूपाणि धामानि स्थानानि यस्य सः

त्रिधामा विष्णुः त्राता रक्षकः[^१] । उत किञ्च । जगत् विष्टपं वशगं वशवर्ति ।

शङ्कराद्याः शर्वाद्याः सर्वे किङ्करा: सेवका:-

 
-
 
'बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् ।

'बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः ॥'
 

 
इत्ययमर्थः सूचितः ॥ ३२ ॥
 

 
(स्तुतिचं.) अपघृणं निर्दयं हिंसितः । अथापि निर्विकारः । आखणाश्मा

हि सः । 'प्रगल्भः प्रौढ उच्यते' इति च । गल्भ दार्म्ढ्ये । 'धार्ष्टर्ट्ये'

इत्यन्ये । 'अधार्ष्टर्ट्ये' इत्यपरे । असुरावेशविरहात् स्वच्छ: परशुक्लत्रये

परिगणितः । 'स्वच्छन्दो निरवग्रहः' इति च । इच्छामरणः । त्रिधामा

नारायणः । श्वेतद्वीपोऽनन्तासनं वैकुण्ठश्चेति यस्य त्रीणि मुक्तिधामानि ।

'अमृतं क्षेममभयं त्रिधाम्नोऽधायि मूर्धसु' इति भागवते । अवस्थात्रयनियमनाय

विश्वस्तैजसः प्राज्ञ इति त्रीणि धामानि स्वरूपाणि वा यस्य । प्रणवस्य

त्रीण्यक्षराणि त्रयो वा वेदा यस्य धाम ॥ ३२ ॥
 

 
१. 'रक्षिता' इति पा. ।