This page has been fully proofread once and needs a second look.

श्लो.३१-३२
 
शुद्धौ' इति । तदनुसारेण सर्तेर्धावादेशमाह पाणिनिः । अधुनातनास्तु

गत्यर्थेऽपि पठन्ति–'धावु गतिशुद्धयोः' इति । तत्पक्षे धावतेरेवेदं रूपम् ।

सर्तेर्धावादेशविधायकं सूत्रं तु व्यर्थं भवति । 'गोमायुर्भूरिमायः स्यात्'

इति च । अवश्यं च ते गोमायवः । निर्वचनसाम्यात् । येषां गौर्वचनमेव

माया । सृजन्ति मायामिति च सृगालान् वदन्ति । आक्रोशन्तः हा हन्त भग्नः

सम्प्रदाय इत्याक्षिपन्तः। 'शाप आक्रोश आक्षेपः' इति च । हन्त क इदानीं

शरणमस्माकमिति परस्परं रुदन्तो वा । क्रोशन्तीति हि क्रोष्टवः । भयभरेण

स्वाशयमाविष्कर्तुमप्यप्रभवः । गलितगवः । कुधियां नाशं देशनाश इति

वाशन्तः तिर्यञ्च इवाऽरुवन्तः । तिरश्चां हि रुतं वाशितमुच्यते । यद्यपि

वाशतिरात्मनेभाषो दिवादिः । महतां प्रयोगमनुरुणद्धि व्याकरणम् । न

व्याकरणं प्रयोगः । बहूनि च व्याकरणानि भवन्ति । भ्वादिरपीष्यताम् । यथा

ष्ठीवतिः । प्रयोगशरणा हि वैयाकरणाः । वाश्यन्त इति वाशास्तिर्यञ्चः ।

तद्वदाचरन्त इत्यनुसन्धाय सन्तोष्टव्यं व्याकरणस्तनन्धयैः । अश्लीलं न श्रियं

लाति । असंस्कृतचर्या इत्येतत् । 'ग्राम्यमश्लीलमुच्यते' इति, 'निन्दायां

विस्मये बत' इति च ॥ ३१ ॥
 

 

 
त्रिष्वप्येवाव-तारेष्वरिभिरप-घृणं हिंसितो निर्विकारः

सर्वज्ञः सर्व-शक्तिः सकल-गुण-गणापूर्ण -रूप-प्रगल्भः ।

स्वच्छ: स्वच्छन्द - मृत्युः सुखयसि सुजनं देव किं चित्रमत्र

त्राता यस्य त्रि-धामा जगदुत वशगं किङ्कराः शङ्कराद्याः ॥
 

॥ ३२ ॥
 

 
(कबिक.) अवतारत्रये विकारहेतौ सत्यपि निर्विकारत्वादिगुणाढ्यत्वं
[^१]
विज्ञापयन् शर्वादिसर्वसुरसेव्यत्वेन स्तौति – त्रिष्विति । त्रिषु अवतारेषु

 
१. 'निर्विकारगुणाढ्यत्वम्' इति पा. ।
 
30