This page has been fully proofread once and needs a second look.

वायुस्तुतिः
 

 
आक्रोशन्त इति । हे श्रीमदाचार्यवर्य । त्वव्याख्यासिंहनादे तव व्याख्या-

नरूपसिंहध्वनौ श्रूयमाणे सति । ते त्वया पराजिताः मायिगोमायवः

मायावादिमृगधूर्तकाः। 'गोमायुर्मृगधूर्तकः' इत्यमरः । सपदि तदानीं व्याख्यान-

समये । आक्रोशन्तः क उपाय: का गतिः किं शरणमिति[^१] परस्परमाह्वानं

कुर्बाणाः । निराशाः निर्गतविजयाकाङ्क्षाः[^२] । भयभरेण साध्वससमृद्ध्या

विवशः परवशः स्वाशयः स्वाभिप्रायः येषां ते । च्छिन्नदर्पाः गलितगर्वाः ।

कुधियां कुत्सितबुद्धीनां देशनाशः स्थानभ्रंशः बत हाहेति नाशं मृतिं वाशन्तः

रुवन्तः"[^३] । 'तिरश्चां वाशितं रुतम्' इत्यमरः । दश आशाः दश दिशः ।

आशु शीघ्रं धावन्तः गच्छन्तः । अश्लीलशीला: ग्राम्यस्वभावाः । 'ग्राम्ये

त्वश्लीलम्' इत्यमरः । वितौ व्यर्थी शपथशापौ[^४] प्रतिज्ञोपालम्भौ येषाम् ।

ते च ते अशिवाः अमङ्गलाः । शान्तशौर्याः नष्टशौर्यगुणाः सन्तो दहशिरे
 

दृष्टाः ॥ ३१ ॥
 
५८
 

 
(स्तुतिचं.) ये च पाषण्डवादमनुगतास्ते मायिगोमायवः । त्वद्व्याख्यासिंह-

नादे श्रूयमाणे सपदि तस्मिन्नेव क्षणे कान्दिशीका आशा दिशो दशाप्याशु

धावन्तो ददृशिरे । 'सृ गतौ' इति धातोर्वेगितायां गतौ धावादेशः । तथाहि

जयादित्यः(अ.सू.७.३.७८ ) - 'सर्तेर्वगितायां गतौ धावादेशमिच्छन्ति ।

अन्यत्र सरति, अनुसरतीत्येव भवति' इति । ननु 'धावु'धातोरेव रूपसिद्धौ

किमनेन द्राविडप्राणायामेन ? शृणु । प्रतना धावतिं शुद्धावेव पेठुः । 'धावु
 

 
[^
.] 'आक्रोशन्तः किं शरणं क उपाय: का गतिरिति' इति पा. ।
 
[^
.] 'विगतविजयाकाङ्क्षाः' इति पा. ।

 
[^
.] तदेतदेवं व्याख्येयम् – कुधियां नाशं देशनाश इति वाशन्त इति । आचार्यपादप्रवचनेन कुधियामेव

नाशः समजनि । न सज्जनलोकस्य । परन्तु कुधियः स्वनाशमेव देशनाश इति भ्रमन्तो ववाशिरे । यद्यपि

सिंहनादेन जम्बुका एव पलायिताः । स्वयं वनाद्रंशिता जम्बुका मेनिरे वनमेव नष्टमिति । तदुक्तम्-
-
'अत्रानन्तस्वान्तवेदान्तिसिंहे मुख्यव्याख्यानिस्वने जृम्भमाणे । सद्यो माद्यद्वादिदन्तीन्द्रभीमे भेजे

क्षोभो मायिगोमायुयूथैः' (म.वि.१२.१) इति । 'आक्रन्दं मे हन्त शृण्वन्तु सोऽयं हाहा मायावाद

उत्सादमेति' (१२.७) इति च ।
 

 
४. 'शपथाक्रोशयोः शाप : ' इति दण्डनाथः ।