This page has been fully proofread once and needs a second look.

श्लो.३०-३१
 
एकमेवाद्वितीयं ब्रह्मेत्यादिकस्य तु '[^१]समाभ्यधिकराहित्यादिविषयतया साव-

काशत्वम् । नेहनानेत्यादिनिन्दनार्थवादस्य तु स्वगतभेदविषयत्वेन सावका-

शत्वम् । अन्यथेहेति विशेषणवैयर्थ्यात् । कतिपयकुनरैः कैश्चित्तमोयोग्यैः

कुत्सितजनैः । तद्दुष्प्रेक्षानुसारात् । तस्य सङ्करस्य दुष्प्रेक्षा दुष्प्रज्ञा । तस्या

अनुसारः अनुसरणं तस्मात् । आदृतः अङ्गीकृतः । अन्यैः मुक्तियोग्यैः सुजनैः

विसृष्टः त्यक्तः । पाषण्डवादत्वादिति भावः । युक्तिवदवभासमानाः नतु

युक्तय: । तस्य सङ्करस्य युक्त्याभासाः । तेषां जालं समूहः । तस्य प्रसरः

प्रसारः । स एव विषतरु: विषवृक्षः । तस्य उद्दाहः उत्कृष्टदहनम् । तस्मिन्

दक्षाणि समर्थानि प्रमाणानि श्रुतिवाक्यानि । तान्येव ज्वालामाला: ज्वाला-

परम्पराः । ताः धारयति यः सोऽग्निः । हे पवन । ते तृतीयः तार्तीयकः ।

अवतारः मध्वावतारः विजयते सर्वोत्कृष्टत्वेन वर्तते ॥ ३० ॥
 

 
( स्तुतिचं.) अहमेव ब्रह्म; अतो निर्गुणोऽहम् इदं विश्वं वितथमित्येष

पाषण्डवादः । पाषडि हिंसागत्योः । पाषण्डति यो हिनस्ति वेदपदवीम्, अपथे

च पतति । अन्यैः सुजनैर्विसृष्टः । तस्य मणिमतः तद्वादस्य वा युक्त्याभासानां

जालं पटलम् । तस्य प्रसर एव विषवृक्षः । तस्य समूलदाहे दक्षाणि प्रमा-

णान्येव ज्वालामालाः । ता बिभ्रदयं हे पवन, तव तृतीयोऽवतारः मध्व-

पावकः ॥ ३० ॥
 

 
आ-क्रोशन्तो निराशा भय-भर- विवश - -स्त्राशयाश्छिन्न-दर्पा

वाशन्तो देश-नाशस्त्विति बत कु-धियां नाशमाशा दशाऽशु ।

धावन्तोऽश्लील-शीला वितथ - -शपथ - -शापाशिवाः शान्त-शौर्य्या-

स्त्वद्-व्यख्या-सिंह-नादे सपदि दहशिरे मायि-गोमायवस्ते ॥ ३१ ॥

 
(कविक.) मायावादिनो मध्वाचार्यतत्वविद्याव्याख्याने प्रवर्तमाने सति

सिंहनादे प्रवर्तमाने जम्बुका इव कष्टां दशां प्रापुरिति विज्ञापयति-
-
 
[^
.] 'समानाभ्यधिक-' इति पा. ।
 
29