This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
विरचयामास । येन निखिला पण्डितमण्डली मूकविस्मिता नासायामङ्गुलिं

विन्यास ॥
 
१०
 

 
तदा जनास्तं साभिमानं त्रिविक्रमपण्डित इत्याजुहुवुः, कविकुलतिलक इति

प्रशशंसुः ॥
 

 
शाङ्करं मायावादमालम्ब्य प्रवृत्तोऽयं वंशः । त्रिविक्रमपण्डितोऽपि मायिनां

सपादलक्षमिते ग्रन्थजातेऽप्यधीती स्वसमयजलधिपारं जगाम ।
 

 
यद्यपि स्वसमयः । अथाप्यध्ययनकाल एव मायावादस्तस्य स्वभावतोऽसङ्गत

इव, व्याकीर्णतया मनोविभ्रमहेतुरिव बाबभासे । मनसि समुद्भवतां शङ्काशङ्कनां

निरासे न गुरवोऽपि प्रबभूवुः । सर्वेऽपि भणन्ति – प्रतनैरुक्तं न प्रष्टव्यम्,

केवलं श्रद्धातव्यमिति । श्रद्धाजडानामयं वाद इति त्रिविक्रमस्य मनः प्रत्य-

वर्तत । अथाप्यात्मानमन्तर्निगृह्य सहमान एव समग्रं मायाबादमध्यगीष्ट ॥

 
सुब्रह्मण्यपण्डितस्य परम्परागते मायावादे निर्मायं निहितश्रद्धस्यापि स्वान्त-

मन्तःशङ्काकलिलमेवाऽस । स कदाचित् तनयमाहूय स्वान्तर्वेदनामावेदया-

मास–'तात त्रिविक्रम, असकृञ्चिन्तितं मया । कः पुरुषार्थोऽनया निर्गुणो-

पासनया । पिपासितस्य मरौ मरीचिकाधावनमिदम् । न वयमिह निर्गुणां

मुक्तिं समीहामहे । सुखमयी गौणी मुक्तिरेवेष्टा नः । तेन पूर्णगुणस्य

नारायणस्योपासनमेव भवतरणोपाय इति मे मनीषा' इति ।
 

 
विचचाल पण्डितः पुनरपि जनकवचसा । विममर्श पुनरपि गाढं मायावा-

दग्रन्थान् । विचचर्च साधकैः सार्धं वृद्धैः ॥
 

 
एकत्र परम्परागतायाः श्रद्धायाः कर्षणम् । अपरत्र तां विरुन्धाना मानसी

तर्कतुमुलता । श्रद्धा परम्परामनुसरेति निरभान्त्सीत् । प्रज्ञा च तां व्यरुणत्

तर्कजालं सृजन्ती ॥