2023-02-19 16:39:51 by ambuda-bot
This page has not been fully proofread.
३१६
उपाधिखण्डने
(टी.) उत्तरप्रबन्धप्रसङ्गोपक्षेपाय कृतम् । अथवा नानिर्धारित स्वरूपस्य प्रसादाशंसनं युक्तम् । न च
लक्षणेन विना निर्धारणमिति लक्षणद्वयाभिधानमिदम् । यथोक्तम्
अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।
तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् । इति ॥
• नारायणप्रीतिरिव रमायाः प्रीतिरपि प्रार्थनीयेति ज्ञापनाय कमलालयः इत्युक्तम् ।
(मं. टि.) तस्माद्विषयामासस्य प्रसक्तत्वातन्निराकरणं युक्तमित्याह ॥ तमेतमिति ॥ तदनेनास्य
प्रकरणस्य वेदान्तविषयादितत्वं विषयः । तदवधारणं प्रयोजनं । वेदान्तशुश्रूषुरधिकारी । सम्बन्धस्तु
यथायोग्यमूहनीय इत्युक्तं भवति ।
ननु मीमांसया " वेदान्तार्थनिर्णये विषयादिकं तत्रैव निश्चेष्यत इति किमनेन प्रकरणेनेति चेत् नैष
दोषः । वेदान्तविषयक प्रवृत्तिहेतुभूतस्य विषयादितत्वावधारणस्य प्रवृत्तिसाध्यवेदान्तश्रवणसाध्यत्वे अन्योन्या-
श्रयप्रसङ्गेन प्राक् प्रवृत्तेः सामान्याकारेण तज्ज्ञानोपायप्रकरणारम्भोपपत्तेः ।
॥ नारायणस्तवनेति ॥ नारायण स्तवननारायणप्रीतिप्रार्थनरूपमङ्गलद्वयाचरणं ' भूयांसि मङ्गलान्यनुष्ठि-
तानि भूयसो विघ्नान् घ्नन्ति ' इति सूचनार्थम् । 'तेन कचिन्मङ्गले कृतेऽपि प्रारिप्सितपरिसमाप्त्यदर्शनान्मङ्गलं
न परिसमाप्त्यादिहेतुरिति शङ्का निरस्ता । तत्र विज्ञानां भूयस्त्वान्मङ्गलस्य ल्पीयस्त्वादिति भावः ॥ मुख्याश्र-
येति ॥ अन्येषां बहुगुणाश्रयत्वमात्रेण अगण्यगुणाश्रयत्वमौपचारिकम् । अस्य तु मुख्यमित्यर्थः । यद्यपि
गुणगुणिनोरत्यन्ता भेदः । तथापि विशेषबलादाश्रया श्रयिभावो द्रष्टव्यः । विशेषस्वरूपं च विवेचयिष्यामः
॥ अभ्यर्हितत्वेनेति ॥ कमला विशिष्टनारायणप्रीतेः स्खस्यैव मुख्यपात्रत्वात् मुख्ये सम्भवत्यमुख्यायोगादित्यर्थः !
अथ वा असति विशेषे 'स्वाभिलष्यमाणेनेष्टेन अन्तरङ्गतया स्वस्यैव सम्बन्धदर्शनादित्यर्थः । यद्वा 'भिक्षा
देहि ' इत्यादाविव वाक्यप्रयोक्तृत्वेन 'स्वस्यैव प्रकृतत्वादित्यर्थः ॥ अत्राद्यमिति ॥ न चोभयत्र तात्पर्ये
वाक्यभेदः शङ्कचः । स्तुतौ तात्पर्येण विशेषणद्वये प्रयुक्ते उत्तरग्रन्थारम्भोपपादनस्य प्रासङ्गिकत्वादिति अपि-
शब्दार्थ: । पक्षान्तरमाह ॥ अथ वेति ॥ यद्यपि एकेनैव लक्षणेन वस्तुसिद्धिः । तथापि एकलक्षणोपपाद-
नायान्यस्मिन् कथिते अव्याप्त्याद्यभावात्तदपि लक्षणं भवतीत्यर्थः ॥ १ ॥
8
तस्माद्विषयाद्याभासस्य,
4 तज्ज्ञापनाय प्रकरणारम्भोपपत्तेः
7 प्रकृतत्वात् । अप्रकृतादभ्यर्हितत्वेनेत्यर्थः
2 वेदान्तार्थ निर्णयविषयादिकं.
5 एतेन.
3 प्रवृत्तिसाध्यवेदान्तश्रवणसाध्यत्वेन,
6 स्वाभि लिप्समा नेनेष्टेन.
8 फलतीति भावः.