2023-02-19 16:39:50 by ambuda-bot
This page has not been fully proofread.
प्रकरणस्य प्रयोजनादिसमर्थनम्
३१५
(म. टि.) प्रतिपादकत्वात् ब्रह्मण्येव महातात्पर्यमित्याह ॥ अशेषेति ॥ न चैवं ब्रह्ममीमांसावैयर्थ्यम्! 'वेदार्थ_
निर्णायकन्यायव्युत्पादकत्वादित्याह ॥ तदुपकरणेति ॥ .
मायावाद्यभिमतविषयादिनिरूपणम्
(टी.) अपरे तु स्वतः 'परमात्मभूतस्यैव जीवस्य अज्ञानादिनिमित्तोऽयमपरमार्थ एवानर्थोऽद्वैतज्ञा-
नै कनिवर्हणीय इत्यतोSस्यानर्थहेतोः ग्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ।
तदितिकर्तव्यतारूपा ब्रह्ममीमांसा चेति मन्यन्ते ।
(मं. टि.) वेदान्तानां विषयादितत्व निर्णयार्थं चैतत्प्रकरणम् । किं 'विषयाद्याभासप्रसक्तिरस्ति ? इत्याशङ्कय
अस्तीत्या । अपरे त्वित्यादिना मन्यन्त इत्यन्तेन ग्रन्थेन ॥ वेदान्तस्य प्रयोजनमात्मैकत्वविद्येत्याह
॥ आत्मैकत्वविद्येति ॥ प्रतिपत्तिशब्देन प्राप्तिर्विवक्ष्यते। आत्मैकत्वविद्याया: प्रयोजनमाह ॥ अनर्थोऽद्वै
*
तज्ञानैकनिबर्हणीय इति ॥ यद्वा वेदान्तानामात्मैकत्वं विषय इत्याह ॥ आत्मैकत्वविद्येति ॥ प्रतिपत्ति-
शब्देन प्राप्तिर्विवक्ष्यते । यद्धि यत्प्रतिपत्त्यर्थं से तस्य विषय इति प्रसिद्धम् । प्रयोजनमाह ॥ अन-
र्थोऽद्वैतज्ञानक निबर्हणीय इति ॥ इत्यनर्थ निबर्हणार्थमिति शेषः । अनर्थस्या द्वैतज्ञाननिवर्त्यत्वे हेतुमाह
॥ अपरमार्थ इति ॥ अपरमार्थत्वे हेतुमाह ॥ अज्ञानादिनिमित्त इति ॥ निमित्तशब्द: कारणमात्र.
वाची तद्विशेषोपादाने पर्यवस्यनीति द्रष्टव्यम् । तत्र हेतुमाह ॥ स्वतः परमात्मभूतस्येति ॥ ननु स्वतः
परमात्माभित्रे जीवे स्वाभाविकानर्थ इव अज्ञाननिमित्तकोऽपि न सम्भवतीत्यत आह ॥ अयमिति ॥ युक्त्य
सहत्वमनर्थस्य भूषणं । प्रतीतिमात्रं तु प्रत्यक्ष सिद्धत्वान्नापलापार्हमिति भावः । ननु ज्ञानस्याज्ञानमात्र निवर्तक-
त्वान्न दुःखादिनिवर्तकत्वं तत्राह ॥ अस्य ग्रहाणायेति ॥ अस्येत्यज्ञानस्येत्यर्थः । साक्षादन निवृत्तिहेतुत्वा-
भावेऽपि अनर्थहेत्वज्ञाननिवृत्त्यर्थमात्मैकत्व विद्येत्यर्थः । अविद्यानिवृत्तेः कथमनर्थनिवृत्तिहेतुत्वम् ? तत्राह ॥ अनर्थ-
हेतोरिति ॥ अनर्थोपादानस्येत्यर्थः । उपादाननिवृत्तेरुपादेय निवृत्तिहेतुत्वं सुप्रसिद्धमिति भावः ।
मङ्गलाचरणम्
(टी.) तमेतं शास्त्रस्य परा भिमतमधिकारिविषयप्रयोजन सम्बन्धं निरस्य स्वाभिमतं समर्थयितुमिदं
प्रकरणमारभमाणो भगवानाचार्यो नारायणस्तवनतत्प्रीतिप्रार्थना
रूपमादितो मङ्गलमाचरति ।
नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।
अशेषदोषरहितः प्रीयतां कमलालयः ॥ १ ॥
अगण्यगुणानां
नित्यैकनिलया सदा मुख्याश्रया आकृति: मूर्तिर्यस्यासौ तथोक्तः । प्रीयतां
अस्माकमिति शेषः । अभ्यर्हितत्वेन सिद्धत्वात् इदं नोक्तम् । अत्रोऽद्य विशेषणद्वयं स्तुत्यर्थमपि
2 श्री.
3 विषयाद्याभासप्रसक्तिरित्याशङ्कय.
1 वेदान्तार्थ.
परब्रह्मभूतस्य.
4 यद्धि यत्प्रतिपत्त्यर्थं स तस्य विषय इति प्रसिद्धम् । आत्मैकत्व विद्यायाः प्रयोजनमाह ॥ अनर्थोऽद्वैतज्ञानैक निबर्हणीय
इति ॥ अनर्थनिबर्हणार्थमिति शेषः ।